________________
सर्गः] टीकया सहितम् दोषापि रात्रिरपि अत्र दोषाशब्दो अव्ययो ज्ञेयः तेन विभक्तिलोपः, क्षुधातुरं बुभुक्षितं भोजयतां न दोषः स्यात् ॥ ३० ॥
कदाचिदुद्गच्छति पश्चिमायां,
सुरः सुमेरुः परिवर्तते वा । सीमानमत्येति कदापि वार्द्धिः,
शैत्यं समास्कन्दति वाश्रयाशः॥३१॥ ६ सर्वसहत्वं वसुधाऽवधूय,
श्वभ्रातिथित्वं भजते कदाचित् । रंभोरु दम्भोरगगारुडं ते, . वचो विपर्यस्यति न प्रियस्य ॥ ३२॥ युग्मम् ।
कदा० हे कल्याणि ! कदाचित् सूरः सूर्यः पश्चिमायां उद्गच्छति, वा अथवा कदापि सुमेरुः परिवर्तते मेरुपर्वतः १.२ स्थानाच्चलति, कदापि वार्द्धिः समुद्रः सीमानं अत्येति अतिक्रामति, कदापि आश्रयाशोऽग्निः शैत्यं समास्कन्दति समागच्छति ॥ ३१ ॥ कदाचित् वसधा पृथ्वी सर्वसहत्वं अवधूय १५ विमुच्य श्वभ्रातिथित्वं पातालस्य अतिथित्वं भजते सेवते, हे रभोरु ! रंभा कदलीवत् ऊरू यस्यास्तस्याः संबोधने, ते तव प्रियस्य श्रीयुगादीशस्य दंभोरगगारुडं मायारूपसर्पस्य गारुडमंत्र-१८ समानं वचो न विपर्यस्यति न परावर्तते ॥ ३२ ॥ युग्मम् ॥
यथा तथाम्भस्य मनुष्य वाचं, .वाचंयमानामपि माननीयाम् । पूर्णेऽवधौ प्राप्स्यसि देवि सूर्नु,
खं विद्धि नूनं सुकृतैरनूनम् ॥ ३३ ॥ .. २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org