________________
३७६
जैनकुमारसंभवं
[ एकादशः
त्रिषून्नतां नाभिः १ सत्व २ खरेषु ३ त्रिगंभीरां, मुख १ जघन २ हृदयेषु ३ त्रिविस्तीर्णां, नासा १ अंगुलि २ नेत्रेषु ३३ व्यायतां त्रिप्रलंबां, मध्य १ आणि २ रोमावलिषु ३ त्रिकशीयसीं ० ईदृशस्त्रीलक्षणानां कोशस्य भांडागारस्य सृष्टे ! हे एकपत्नीश्वर ! हे विश्वनाथ श्री मंजुहृत्पंजरसारिके ! श्री आदिदेवस्य श्रिया शोभया मंजु मनोज्ञं यत् हृदयमेव पंजरं तत्र सारिकासदृशे त्वं जय ॥ २३ ॥
जाता महीधादिति या शिला सा, त्वां स्पर्धमानास्तु जडा मृडानी । अंभोधिलब्धप्रभवेति मत्सी,
न श्रीरपि श्रीलवमश्नुते ते ॥ २४ ॥ जा० सा मृडानी पार्वती त्वां स्पर्धमाना जडा अज्ञाना अस्तु, या पार्वती महीभ्रात् पर्वतात् जाता इति शिला वर्त्तते, श्रीरपि लक्ष्मीरपि ते तव श्रीलवं शोभायाः अंशं न अनुते न १५ प्राप्नोति, किंविशिष्टा लक्ष्मीः ? अंभोधिलब्धप्रभवा समुद्रात् जाता इति कारणात् मत्सी ॥ २४ ॥
केनापि नोढा स्थविराङ्गजेति,
या निम्नगाख्यामपि कर्मणाप्ता । पपात पत्यौ पयसां पिपर्ति,
कथं सरस्वत्यपि सा तुलां ते ।। २५ ।। केना० या सरखती स्थविरांगजा स्थविरो ब्रह्मा वृद्धश्च ** तस्य अंगजा पुत्री इति कारणात् केनापि नोढा न परिणीता,
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org