________________
सर्गः] टीकया सहितम् या सरखती कर्मणा निम्नगाख्यां निम्नं नीचैर्याति इति निम्नगा नदी नीचगामिनी स्त्री वा तस्या आख्यां नाम आप्ता प्राप्ता सती पयसां पत्यो समुद्रे पपात, सा सरखत्यपि, ते तव तुलां ३ सादृश्यं कथं पिपति प्राप्नोति ? ॥ २५ ॥
या स्वर्वधूः काचन कांचनांगी,
तुलां बयारोढुमियेष मूढा । असारतां किं विबुधैर्विचार्य,
रंभेति तस्या अभिधा व्यधायि ॥ २६ ॥ या० या कांचनांगी सुवर्णशरीरा काचन खर्वर्देवांगना ९ मूढा सती त्वया तुलां आरोढुं इयेष वांछति स्म, विबुधैर्विद्वद्भिर्देवैर्वा असारतां विचार्य तस्याः खर्वध्वाः किं रंभा इति नाम व्यधायि कृतं ? रंभाशब्देन कदली, सा मध्ये असारा १२ भवति ॥ २६॥
कलाकुलाचारसुरूपताध, __ यं तावकं गौरि गुणं गृणीमः । मंजामहाब्धावित्र तत्र मना,
वाग्न स्वमुद्धर्तुमधीश्वरी नः ॥ २७ ॥ कला० हे गौरि ! वयं तावकं त्वदीयं कलाकुलाचारसुरू-१८ पताचं यं गुणं गृणीमः ब्रूमः, तत्र तस्मिन् गुणे मनाः नोऽस्माकं वाक् खं उद्धर्तुं न अधीश्वरी न समर्था, का इव मंजेव छागीव महाब्धौ महासमुद्रे मग्ना सती खं उद्धत न समर्था स्यात् ।। २७ ॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org