________________
३७४
जैनकुमारसंभवं [एकादशः रुष्टं प्रीतिमंतं चकार, किंवि० दक्षिणं करं ? लक्षणवीक्षणस्य क्षणे लक्षणावलोकनसमये उज्झितं त्यक्तं, पुरुषस्य दक्षिणहस्ते ३ लक्षणानि वीक्ष्यन्ते, नार्या वामहस्ते तु तदा दक्षिणो हस्तो रुष्ट इति भावः, किं कुर्वती सखी ? निशावशात् अस्याः सुमंगलाया विसंस्थुलं भूषणजालं आभरणसमूहं सुष्ठु शोभनं निवेशयन्ती ६ कुर्वती, तदा दक्षिणहस्तस्यापि भूषणानि सुष्टु निवेशितानि इति प्रीतिमाँश्चके ॥ १९ ॥
यं दर्पणो भस्मभरोपरागं, ९ प्रगेऽन्वभूत् कष्टधिया प्रदिष्ठः ।
तदा तदास्यप्रतिमामुपास्य,
___ सखीकरस्थः प्रशशंस तं सः ॥२०॥ १२ यं० दर्पणः आदर्शः प्रगे प्रभाते कष्टधिया कष्टबुद्ध्या यं
भस्मभरोपरागं भस्मनामार्जनोपप्लवं यत् प्रदिष्ठः सुकुमालतरः
सन् अन्वभूत् अनुभवति स्म तदा तस्मिन्नवसरे दर्पणः सखी१५ करस्थः सख्या हस्तस्थितः सन् तदास्यप्रतिमां उपास्य तस्याः
सुमंगलायाः आस्यं मुखं तस्य प्रतिमा प्रतिबिंबं सेवित्वा तं भस्मभरोपरागं प्रशशंस प्रशंसितवान् ॥ २० ॥
समाहिता संनिहितालिपालि
प्रणीतगीतध्वनिदत्तक । उपस्थित सा सहसा पुरस्ता.
दक्षा ऋभुक्षाणमथालुलोके ॥ २१ ॥ समा० सा दक्षा सुमंगला सहसा ऋभुक्षाणां इन्द्रं उपस्थितं २३ आगतं पुरस्तात् अग्रे आलुलोके अपश्यत् , किंलक्षणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org