SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सर्ग: टीकया सहितम् कृतामृताख्यं कृतकर्मभिस्त जगत्सु तज्जीवनतां जगाम ॥ १७ ॥ यद० अम्भसा पानीयेन दंभसमुज्झिताया मायामुक्ताया ३ राज्याः, सुमंगलायाः मुखेंदोः मुखचन्द्रस्य यत् अनुषङ्गः सम्पकों विहितः, तस्मात् कारणात् तत् अम्भः कृतकर्मभिर्विद्वद्भिर्जगत्सु विश्वेषु कृतामृताख्यं सजीवनतां जगाम, अमृतं जीवनं पानीयमेवोच्यते ।। १७ ॥ मुखं परिक्षालनलग्नवारि लवं चलचंचलनेत्रभृङ्गम् । प्रातः प्रबुद्धं परितः प्रसक्ता वश्यायमस्या जलजं जिगाय ॥ १८ ॥ मुख० अस्याः सुमंगलायाः मुखं कर्तृपदं जलजं कमलं १२ जिगाय जयति स्म, किं लक्षणं मुखं ? परिक्षालनलग्नवारि प्रक्षालनेन लमा जलबिन्दवो यत्र तत् परिक्षालन०, युन: किंवि० चलचंचलनेत्रगं चलन्तौ चंचल मन एव भुंगो भ्रमरौ यत्र १५ तत् चल०, पुनः विप्रातः प्रबुद्धं प्रभाते विकसितं, पुनः किं० ? परितः प्रसक्तावश्यायं समंततो लगतुहिनम् ॥ १८ ॥ निशावशाभूषणजालमस्या, विसंस्थुलं सुष्टु निवेशयन्ती। काप्युज्झितं लक्षणवीक्षणस्य, क्षणे करं दक्षिणमन्वनैषीत् ॥ १९ ॥ निशा० कापि सखी सुमंगलाया दक्षिणं कर अन्वनैषीत् १२ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy