SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सर्गः ] जैनकुमारसंभवं ३६७ अध्वविरोधनं मार्गशोधनं च, इत्याद्या भूरितराः, प्रचुरा अर्थ क्रियाः कार्याणि अवेक्ष्य ज्ञात्वा ॥ २ ॥ प्रातः प्रयाणाभिमुखं तमिस्रं, कोकास्यमालिन्य सरोजमोहौ । आलंब्य सार्थ न हि मार्गमेको, गच्छेदिति च्छेदितवान नीतिम् ॥ ३ ॥ प्रातः ० अन्धकार इति नीतिं न्यायं न छेदितवानत् न छिनत्ति स्म, इतीति किं न हि एको मार्गं गच्छेत्, किं रूपं तमिस्रं ? प्रातः प्रयाणाभिमुखं, किं कृत्वा ? कोकास्यमालिन्यसरों-९ मोहौ सार्थं आलंब्य कोकानां चक्रवाकानां आस्यमालिन्यं मुखमालिन्यं सरोजानां कमलानां मोहः संकोचः, एतौ द्वौ सार्थं आलम्ब्य आश्रित्य ॥ ३ ॥ तमो ममोन्मादमवेक्ष्य नश्यदेतैरमित्रं स्वगुहास्वधारि । इति क्रुधेव पतिर्गिरीणां, मूर्भो जघानायत केतुदण्डैः ॥ ४ ॥ तमो० ग्रुपतिः सूर्यः गिरीणां पर्वतानां मूर्ध्ना मस्तकानि आयतकेतुदण्डैर्विस्तीर्ण किरणदण्डैर्जघान, उत्प्रेक्ष्यते इति क्रुधेव १८ रोषेण वा इतीति किं ? एतैः पर्वतैः मम अमित्रः शत्रुरूपं तमोऽन्धकारं खगुहासु आत्मीयगुहासु अधारि धृतिं, किं कुर्वन् ? अन्धकारं मम उन्मादं अवेक्ष्य नश्यत् ॥ ४ ॥ २.४ Jain Education International For Private & Personal Use Only १२ १५ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy