________________
टीकया सहितम् [एकादशः
अथ एकादशः सर्गः। निराकरिष्णुस्तिमिरारिपक्षं ___ महीभृतां मौलिषु दत्तपादः। अथ ग्रहाणामधिभूरुदीये,
प्रसादयन् दिग्ललनाननानि ॥१॥ ६ निरा० अथानन्तरं ग्रहाणां अधिभः यः ग्रहखामी श्रीसूर्य उदीये उदयं प्राप्तः, किं कुर्वन् सूर्यः दिग्ललनाननानि प्रसादयन् दिगंगनानां मुखानि प्रसन्नीकुर्वन् , पुनः किं९विशिष्टः सूर्यः ? तिमिरारिपक्षं अन्धकारे शत्रुपक्षं निराकरिष्णुः निराकरणशीलः, पुनः किंवि० महीभृतां पर्वतानां राज्ञां
वा मौलिषु शिखरेषु मस्तकेषु वा दत्तपादः दत्तकिरणः दत्त१२ चरणो वा ॥१॥
तमिस्रबाधाम्बुजबोधधिष्ण्य
मोषाम्बुशोषाध्वविशोधनाद्याः। १५ अर्थक्रिया भूरितरा अवेक्ष्य,
- वेधा व्यधादस्य करान् सहस्रम् ॥ २॥
तमि० वेधा ब्रह्मा अस्य रवेः सूर्यस्य करान् सहस्र व्यधात् १८ चकार, यथा विंशतिः पुरुषा अत्रैकवचनं तथा अत्रापि,
किं कृत्वा ? तमिस्रबाधांबुजबोधिधिष्ण्यमोषांबुशोषाध्वविशोधनाद्याः, तमिस्रबाधा अन्धकारपीडा, अंबुजबोधः कमल२०विकासश्च धिष्ण्यमोषो नक्षत्रमोषश्च अंबुशोषो जलशोषश्च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org