SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सर्ग: 1 जैनकुमारसंभवं ३६३ सुद० हे सुदति शोभना दंता यस्याः सा सुदती तस्याः संबोधनं क्रियते, सोऽयं पक्षिणां समूहो नदति शब्दायते, किंलक्षणः पक्षिणां समूहः ? चंडदी धित्युदय समयनश्यन्नेत्रमोहः ३ सूर्योदयसमये नष्टनिद्रा मोहः, किंविशिष्टानां पक्षिणां नृत्यत् पक्षीणां उत्प्रेक्ष्यते—इतीव, इतीति किं ? अथानन्तरं अस्मादृशां स्मेरवाचप्रथनं खेच्छागमनस्य स्फेटनं रजनि रात्रिर्दूरे ६ अजनि जाता ॥ ८० ॥ दिन वदनविनिद्रीभूतराजीवराजी - परमपरिमलश्रीतस्करोऽयं समीरः । सरिदपहृतशैत्यः किंचिदाधूय वल्ली भ्रमति भुवि किमेष्यच्छूर भीत्याऽव्यवस्थम् ॥ ८१ ॥ दिन० अयं समीरो वायुः भुवि पृथिव्यां किं एष्यत १२ शूरभीत्या एष्यत आगमिष्यतः शूरस्य सूर्यस्य सुभटस्य वा भीत्या भयेन अव्यवस्थं व्यवस्थारहितं यथा भवति तथा भ्रमति, किं कृत्वा किंचिद्वलीराधूय धूनयित्वा किंलक्षणः १५ समीरः दिनवदनविनिद्रीभूतराजीवराजीपरमपरिमलश्री तस्करः दिनवदने प्रभाते विनिद्रीभूता विकखरा या राजीवराजी कमल श्रेणिस्तस्याः या परमपरिमलस्य श्रीलक्ष्मीस्तस्यास्तस्कर - १७ चौरः पुनः किंल० सरिदुपहृतशैत्यः सरितो नद्या अपहृतं गृहीतं शैत्यं शीतलत्वं येन स सरिदुप०, अन्योपि यो अपराधी स शूराद्विभेति, कमलपरिमल श्रीहरणे वायोरेको अपराधः, नद्याः शीतत्वहरणे द्वितीयः, वल्लीधूनने परदारलं- २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy