________________
टीकया सहितम्
शङ्खण तत्र सौखरात्रिको, द्वारि संनदति दीयता श्रुतिः । आर्यकार्य फलवर्धनखनोपज्ञपुण्यपटलैरिवोज्वलः ॥ ७८ ॥
शङ्ख० हे स्वामिनि ! एष शंखो द्वारि द्वारे संनदति शब्द ६ करोति श्रुतिः कर्णो दीयतां, किंलक्षणः शंख: ? तवसौख - रात्रिकः सुखरात्रिं पृच्छतीति सौखः, पुनः किंलक्षणः उत्प्रेक्ष्यते-- आर्यकार्यफलवर्धनखनोपज्ञपुण्यपटलैरुज्वल इव ९ आर्य कार्य फलस्य उत्तमकार्यफलस्य वर्धनस्य वृद्धिकारिणः, खनशब्दस्यापज्ञैः संजातैः पुण्यपटलैरुज्वला धवल इव ॥ ७८ ॥ जाग्रदेव तव शान्तदिग्मुखो, वति यन्मृदुरवः प्रियं द्विकः । किं ततः सुचरिताद् द्विजन्मना - मग्रभोजनिकतामयं गमी ॥ ७९ ॥ जाग्र० हे स्वामिनि ! जायंदेव मृदुरवः सकोमलशब्दो द्विकः काको यत् तव प्रियं अभीष्टं वक्ति वदति, किंविशिष्टो द्विकः ? शान्त दिग्मुखः शान्ताया दिशि मुखं यस्य स शान्त०, १८ ततस्तस्मात् सुचरितात् सदाचरणात् अयं द्विकः द्विजन्मनां ब्राह्मणानां अग्रभोजनिकतां अग्रेसरभोजनत्वं गमिष्यति ॥ ७९ ॥ सुदति नदति सोऽयं पक्षिणां चण्डदीधित्युदय समयनश्यन्नेत्र मोहः समूहः । रज निरजनिदूरेऽस्मादृशां खैरचारप्रमथनमथ नृत्यत्पक्षतीनामितीव ।। ८० ।।
- १५
१२
२३
३६२
Jain Education International
For Private & Personal Use Only
[ दशमः
www.jainelibrary.org