________________
टीकया सहितम्
[ दशम
पटत्वलक्षणस्तृतीयोऽपराधः, वायुश्च शीतो मन्दः सुरभिश्चेति त्रिगुणो वर्ण्यते इति भावः ॥ ८१ ॥ लक्ष्मीं तथाम्बरमथात्मपरिच्छदं च, मुंचन्तमागमितयोगमिवास्तकामम् । दृष्ट्शमल्परुचिमुज्झति कामिनीव,
तं यामिनी समम्बुरुहाक्षि पश्य ॥ ८२ ॥ लक्ष्मीं ० हे अम्बुरुहाक्षि कमललोचने ! पश्य विलोकय यामिनी रात्रिः कामिनीव तं प्रसरं उज्झति त्यजति, किं ९ कृत्वा ? ईशं चन्द्र अल्परुचि अल्पकान्ति अल्पप्रकाशं अल्पेच्छं वा दृष्ट्वा विलोक्य किं कुर्वन्तं ? चन्द्रं लक्ष्मीं तथा अम्बरं आकाशवस्त्रं वा अथ आत्मपरिच्छेदं च आत्मपरिवारं मुंचन्तं, १२ उत्प्रेक्ष्यते — अस्त कामं अस्ताभिलाषिणं निरस्तकंदर्पं वा, आगमितयोगमिव अभ्यस्तात्मानमिव ॥ ८२ ॥
अवशमनशद्भीतः शीतद्युतिः स निरम्बरः खरतरकरे ध्वस्यद्ध्वान्ते रवाबुदयोन्मुखे । विरल विरलास्तज्जायन्ते नमोऽध्वनि तारकाः परिवृढीकाराभावे बले हि कियद्बलम् || ८३ ॥ अव० स शीतद्युतिः चन्द्रः सूर्यभयेन भीतस्त्रस्तनिरंबरो गतवस्त्रः सन् अवश्यं यथा भवति तथा अनशत् नष्टः, क सति खरतरकरे, तीक्ष्णकिरणे ध्वस्यध्वान्ते छिद्यमानान्धकारे, एवंविधे खौ सूर्ये उदयोन्मुखे सति तेन कारणेन २२ नभोऽध्वनि आकाशमार्गे तारका विरला विरला जायन्ते, हि
१५
३६४
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org