________________
३६०
'टीकंया सहितम्
[ दशमः
१६, गीतज्ञा १७, वाद्यज्ञा १८, नृत्यज्ञा १९, सुप्रमाणशरीरा २०, सुगन्धप्रिया २१, नीतिमानिनी २२, चतुरा ३२३, मधुरा २४, स्नेहवती २५, विमर्षवती २६, गूढमंत्रा २७, सत्यवती २८, कलावती २९, शीलवती ३०, प्रज्ञावती ३१, गुणान्विता ३२, चेति द्वात्रिंशन्नायकानां गुणश्रेणिवर्णनं ६ करोतीति वर्णनकृत् तया वर्णनकृता, सर्वस्यापि तात्त्विकः कोशो गुणा एव ज्ञेया इति भावः ॥ ७३ ॥ स्वेश सौहृदमवेत्य तन्मुखस्वागतैः शरणमन्तरिक्षतः । भास्करोदय भयादिवोडुभिः, काप्यरंस्त शुचिरत्नकन्दुकैः ॥ ७४ ॥
स्वेश० कापि स्त्री शुचिरत्नकन्दुकैः पवित्रपद्मरागस्फटिकवैडूर्यचन्द्रकांतप्रभृतिरत्नस कत्कंदुकैः अरंस्त रेमे । उत्प्रेक्ष्यतेभास्करोदयभयात् अन्तरिक्षतः आकाशात् शरणं आगतैरुडु - १५ भिर्नक्षत्रैरिव, किं कृत्वा ? तन्मुखस्य तस्याः सुमङ्गलाया मुखस्य खेशसौहृदं अवेत्य स्वस्य आत्मनः ईशेन चन्द्रेण सह सौहृदं मैत्र्यं ज्ञात्वा मुखस्य चन्द्रदर्पणपद्मप्रभृतीनामुपमानं दीयते, १८ अतो मुखस्य चन्द्रेण मैत्र्यं तेन तत्पार्श्व प्राप्त इति
१२
२१
भावः ॥ ७४ ॥
२३
को बली जगति कः शुचां पदं, याचितो वदति किं मितंपचः । कीदृशं भटमनः सुरेषु को, भैरवस्तव धवश्व कीशः ॥ ७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org