SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३५४ टीकया सहितम् [ दशमः होत्रं जुहुयात् स्वर्गकामः इत्यादिका यस्याः सा एवंविधा श्रुतिः वेदस्तस्याः परं अन्यं अखिलं प्रपञ्चं देवतादिपौरुषेय३ शास्त्रादिविस्ताररूपं मृषा अलीकं आदिशत्, तेषां मते वेदानामेव तत्त्वरूपत्वात्, तन्मते देवतापि मन्त्रमया मन्यन्ते ॥ ६५ ॥ इति मीमांसकमतं ॥ आत्मनः परभवप्रसाधना भासुरा मिषनिषेधिनैपुणा । गीष्पतेर्मतमतीन्द्रियार्थवि तत्र काचिदुचितं व्यधाद्वृथा ॥ ६६ ॥ आत्म० काचित् स्त्री गीष्पतेश्चार्वाकस्य मतं तत्र सुमङ्गलाये उचितं युक्तं वृथा निष्फलं व्यधात् कृतवती, चार्वाकमते १२ इन्द्रियार्था एव बहु मन्यन्ते, 'मणुन्नं भोयणं भुच्चा' इत्यादि वचनात् "पिब खाद च चारुलोचने । यदतीतं वरगात्रि ! तन्न ते । नहि भीरु ! गतं निवर्तते समुदयमात्रमिदं कलेवरं ॥ एतावानेव १५ लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुताः ॥" इत्याद्यागमस्तन्मते चात्मनः परभवो न मन्यते, इत्यादियुतं चार्वाकमतं, सा एवंविधं तन्मतं निराकार्षीत्, १८ सा कथंभूता ? आत्मनः परभवप्रसाधनाभासुरा आत्मनः स्वस्य परेभ्यो भवा स्नानशीर्षप्रथनादिसंभवा प्रसाधना अलंकरणा तया भासुरा देदीप्यमाना, पुनः किंल० मिषनिषेधिनैपुणा मिषं दस्तस्य निषेध निषेधकारकं नैपुणं चातुर्यं यस्याः सा पुनः २२ किं० अतीन्द्रियार्थवित् इन्द्रियातीतान् अर्थान् स्वर्ग नरकद्वीप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy