SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सर्गः] - जैनकुमारसंभवं ३५५ समुद्रकर्मजीवादिपदार्थान् वेत्तीति अतीन्द्रियार्थवित् 'सबोलोगो लोगो सज्झायवियस्सपञ्चक्खो' इत्यागमात् चार्वाकमतनिराकरणपक्षे तु सा कथंभूता ? आत्मनो जीवस्य परभवस्य ३ खर्गनरकादिरूपस्य प्रसाधनं स्थापनं तेन अतिशोभिते इति परभवप्रसाधनभाः, पुनः कथंभूता सा? सुरामिषनिषेधिनैपुणा, सुरा मदिरा आमिषं पलं तनिषेधिनैपुण्यमस्याः सा, एतेन६ पिब खाद च इत्यादिवचनं निराकृतं । अतीन्द्रियार्थवित् अतिकान्तानि इन्द्रियाणि येन स एवंविधो धर्मार्थकाममोक्षेषु सारं इन्द्रियगृद्धिरसरहितो यो धर्मार्थसूत्रवन्निपुणा ॥६६॥ ९ इति चार्वाकमतं । तां प्रवीणहृदयोपवीणय त्येकतानमनसं पुरः परा । निर्ममे खरवं स्ववल्लकी दण्डमेव मृदुभास्वरस्वरा ॥ ६७॥ तां० प्रवीणहृदया अपरा स्त्री स्ववल कीदण्डमेव आत्मीयं १५ वीणासत्कमेव दण्डं खरवं कठोरशब्दं निर्ममे चकार, किं कुर्वती ? पुरोऽग्रे एकतानमनसं एकचित्तां सुमङ्गला उपवीणयन्ती वीणया गायन्ती, किंलक्षणा अपरा ! मृदुभाखर-१० खरा, सुकुमारो देदीप्यमानश्च खरो यस्याः सा मृदु० ॥६७।। । अन्यया ऋषभदेवसद्गुण.. ग्रामगानपरया रयागता । 'लभ्यते स लघु तामुपासितुं, किं न किनरवधूः खशिष्यताम् ॥ ६८॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy