________________
सर्मः] जैनकुमारसंभव ३५३ विश्रुतस्वरगुणश्रुतेः परं,
या प्रपञ्चमखिलं मृषादिशत् । मूर्च्छनासमयसङ्कुचद् दृशां,
सा न किं परमहंसतां गता ॥६५॥ विश्रु० सा स्त्री किं सतां साधूनां परमहं प्रकृष्टं महं उत्सवं न गता अपि तु गता अथवा परमहंसतां मीमांसकभेदं न गता, अपि तु गतेव, यतः-चत्वारो भगवद्भेदाः कुटीचरबहूदको । हंसः परमहंसश्चाधिक्यामीषु परः परः ॥ १ ॥ एके मीमांसका भट्टाः, एके प्राभाकराः, भट्टानां , षप्रमाणानि प्रभाकराणां पञ्च प्रमाणानि, भट्टा प्रभाकराः कर्ममीमांसकाः वेदवादिनः, परे च वेदान्तवादिनो ब्रह्ममीमांसकाः इत्यादिमीमांसकखरूपं ज्ञेयम् ।। अथ काव्यार्थः कथ्यते-१२. या सतां परमहंसगता, सा किंविशिष्टा वर्तते, या स्त्री मूर्च्छनासमये सङ्कुचन्त्यौ दृशौ येषां ते मूर्च्छनासमयसङ्कुचदृशस्तेषां विश्रुतखरगुणश्रुतेः विश्रुता विख्याता खराः १५ सारिगमपधनिरूपाः मन्द्रमध्यतारास्तेषां गुणा ' माधुर्यादयः संगीतोक्त्या तेषां श्रुतेः श्रवणात् परं अन्यं अखिलं समस्तं प्रपञ्चं चक्षुरादीन्द्रियकृतं पदार्थविलोकनादिरूपं (देवतादि-१८ पौरुषेयशास्त्रादिविस्ताररूपं) अलीकं आदिशत्, गीतश्रोतारस्तलयलीनत्वेन गीतमेव शुश्रुवुरिति भावः, परमहंसमतपक्षे या स्त्री विश्वता विख्याता खरा उदात्त-अनुदात्त-खरितरूपा वेदोच्चारविशेषा गुणा बेदोक्ताः कारीरी निर्वपेत् वृष्टिकामः, अनि २१
जै० कु० २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org