SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५२ टीकया सहितम् [दशमः नाभिस्तस्याः सुमङ्गलाया मूर्च्छना जाता तदा रागस्य क्षणक्षयत्वं नास्ति, यदि रागः क्षणक्षयी स्यात् तदा मूर्च्छना कथमुत्पद्यते? ३ अतः कारणात् ध्वनेः शब्दस्य तस्मादुद्भवस्य अभावः, यथा वन्ध्यायाः पुत्राभावदूषणं, तथा अत्रापि तदुद्भवाभावदूषण लुप्तमिति भावः, रागो ध्वनिस्तदुद्भवाश्च मूर्च्छना ज्ञेयाः॥६॥ ६ इति बौद्धमतम् ॥ तत्त्वषोडशकतोऽधिकं खकं, गीततत्त्वमुपनीतनिति । व्यञ्जतीह विधिनाच्युतेन का प्यक्षपादमतमन्यथाकृत ॥ ६४॥ तत्व० कापि स्त्री अक्षपादमतं नैयायिकमतं अन्यथा१२ कृत वैपरीत्यं करोति स्म, नैयायिकमते हि प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तवयवतर्कनिर्णयवादजल्पवितंडाहे स्वाभासछलजातिनिग्रहस्थानानि षोडशतत्त्वानि, सृष्टिसंहार१५ कर्ता मोक्षदो देवो महेशः, एवं च सति वैपरीत्यं कथ्यते, किं कुर्वती कापि स्त्री ? तत्त्वषोडशकतः अधिकं खकीयं गीतं व्यञ्जयन्ती प्रकटयन्ती, किंविशिष्टं गीतं? अच्युतेन अस्ख१० लितेन विधिना उपनीता निर्वृतिः समाधिर्येन तत् , वैपरीत्यपक्षे षोडशतत्त्वेभ्यो अधिकं सप्तदशतत्त्वं कथयति, अच्युतेन कृष्णेन विधिना ब्रह्मणा उपनीता दौकिता निर्वृतिमोक्षो यत्र २१ एवं वैपरीत्यं ज्ञेयं ॥ ६४ ॥ इति नैयायिकमतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy