________________
सर्गः ]
जैनकुमारसंभवं
३५१
यति, आत्मा च साक्षिमात्रं, ' अकर्ता निर्गुणोऽभोक्ता आत्मा कपिलदर्शने' इति वचनात् इति काव्यार्थः, सद्गुणा विद्यमानसत्वरजस्तमोलक्षणगुणाः प्रकृतिः प्रधानं रंगस्य हर्षस्य योग्यानां ३ करणानां इन्द्रियाणां ओघः समूहः, तस्य लीलया चापलं चपलत्वं प्राप, यथा प्रकृतेर्महान् ततोऽहंकारस्ततः पंचेन्द्रियाणीत्यादि, क सति तदा तस्मिन्नवसरे आत्मनि साक्षितां ६ अकर्तृत्वात् साक्षिमात्रत्वं प्राप्ते सति, यथा नृपे सभानि - विष्टे विलोकयति सति नर्तकी नृत्यं करोति तथाऽत्रापि ज्ञेयं ॥ ६२ ॥ इति सांख्यमतं ॥
तां विधाय शुचिरागसम्भवन्मूर्च्छनाभिरुपनीतमूर्च्छनाम् । सौगतं ध्वनिगतं तदुद्भवाभावदूषणमलुप्त काचन ॥ ६३ ॥
Jain Education International
९
तां० काचन स्त्री सौगतं सुगतप्रणीतं ध्वनिगतं शब्दगतं तदुद्भवाभावदूषणं तस्मादुद्भवति, इति अस्य अभावः स १५ एव दूषणं तत् अलुप्त लुंपति स्म, किं कृत्वा ? शुचिरागसंभवन् मूर्च्छनाभिः शुचिः पवित्रः यो रागः श्रीरागादिस्तस्मात् संभवतीभिरेकविंशतिमूर्च्छनाभिस्तां सुमङ्गलां उपनीतमूर्च्छनां प्राप्त - १८ मोहां विधाय कृत्वा, तथा च बौद्धमते सुगतो देवः क्षणक्षणिकं च विश्वं क्षणक्षयत्वात् अमुकं अमुकादुत्पद्यते इति न वक्तव्यं, यतः 'यो यत्रैव स तत्रैव यो यदैव सदैव सः । न देशकाल - योर्व्याप्तिर्भावानामिह विद्यते' । यदि रागात् संभवतीभिर्मूर्च्छ- २२
For Private & Personal Use Only
१२
www.jainelibrary.org