________________
१८
जैनकुमारसंभवं [प्रथमः त्मीयजनन्याः, चेतो मनश्चिराय चिरकालम्, इति अमुना प्रकारेण, चकितं चकार, इति इति किम् ? का स्त्री अमुं बालं ३ पयो दुग्धं अपीप्यत् पाययति स्म । अथ पयःपानशङ्कायां हेतुमाह-किंविशिष्टो भगवान् ? स्मितेन धौताधरपल्लवः हास्येन प्रक्षालितोष्ठपल्लवः । तीर्थकृतः सर्वेऽपि बाल्ये मातुः स्तन्यपानं. न कुर्वत इति भावः ॥ २५ ॥ ___ अश्वोघदम्भादहिरुद्गतेन
माता न माता हृदि संमदेन । परिप्लुताक्षी तनुजं वजन्ती
यं तोषदृष्टेरपि नो विभाय ॥२६॥ अश्वोघदं० माता मरुदेवी यं तनुजं खजन्ती आलिङ्गन्ती १२ सती तोषदृष्टेरपि संतोषदृशोपि नो बिभाय बिभेति स्म, किंविशिष्टा माता !, सम्मदेन परिप्लुताक्षी, हर्षेण प्लावित
लोचना । किंविशिष्टेन संमदेन ? हृदि न माता, मातीति १५ मात्, तेन माता, पुनः किंविशिष्टेन संमदेन ? अश्वोधदम्भाद्वहिरुद्गतेन अश्रुप्रवाहमिषाबहिनिःसृतेन ॥ २६ ॥
अव्यक्तमुक्तं स्खलदंहियानं
निःकारणं हास्यमवस्त्रमङ्गम् । जनस्य यद्दोषतयाभिधेयं
तच्छेशवे तस्य बभूव भूषा ॥ २७ ॥ २. अव्यक्तमुक्तं० जनस्य लोकस्येति सर्वत्र सम्बध्यते । यत्
- * लोकदृष्टेरपि इत्यत्र टीकायां च समीचीनं भाति, शेषं तु तत्त्वविदो विदाङ्कुर्वन्तु, संपादकः..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org