________________
सर्ग: ]
टीका सहितम्
१७
भगवान् पालन के माति यशो लोकत्रयेऽपि न माति, अत एव कार्यकारणयोः सादृश्ये मृषात्वमिति भावः ॥ २३ ॥
आशाम्बरः शान्तविकल्पवीचिमना विना लक्ष्यमचञ्चलाक्षः । बालोऽपि योगस्थितिभूरवश्यः स्वस्यायतौ यः कमनेन मेने ॥ २४ ॥
आशाम्बरः ० यो भगवान् कमनेन कन्दर्पेण आयतौ उत्तर- काले खस्य आत्मनः अवश्यो मेने मन्यते स्म । किंविशिष्टो भगवान्, बालोऽपि योगस्य स्थितेर्मर्यादायाः भूः स्थानं, पुनः ९ किंविशिष्टो भगवान् ? आशाम्बरः आशा दिश एव अम्बराणि वस्त्राणि यस्य सः पुनः किंविशिष्टो भगवान् ? शान्तविकल्पवीचिमना - उपशान्ता विकल्पानां वीचयः कल्लोला यत्र एवंविधं १२ मनो यस्य सः, पुनः किंविशिष्टो भगवान् ? लक्ष्ये विलोकनीयं वस्तु विनापि अचञ्चलाक्षो निश्चललोचनः, योगवानपि एवंविधः ः स्यात्, भगवानपि एवंविधः, अतः कमनस्य मनसि १५ भगवत्यजेयत्वशङ्का जातेति भावः ॥ २४ ॥
अस्तन्यपायीति विनिश्चितोऽपि
कामुं पयोऽपीप्यदिति खमातुः ।
चिराय चेतश्चकितं चकार
स्मितेन धौताधरपल्लवो यः ।। २५ ।। अस्तन्यपायी ० यो भगवान् अस्तन्यपायीति विनिश्चितोऽपि -स्तन्यं न पिबतीत्येवंशीलोऽस्तन्यपायी इति निर्णीतोऽपि खमातुरा • २२
जै०
० कु० २
Jain Education International
ઢ
For Private & Personal Use Only
www.jainelibrary.org