________________
१६
जैनकुमारसंभवं
[प्रथमः
निजसेवकेषु सुपर्वसु देवेषु तोषाद्धर्षादिव । किं कृत्वा ? अस्य
खामिनः शिशोर्बालस्य सत् इक्षुदण्डे रुचिं अभिलाषं विदित्वा ३ ज्ञात्वा, किंविशिष्टे इक्षुदण्डे ? सुपर्वणि शोभनपर्वणि । सुपर्वशब्देन देवा उच्यन्ते । शोभनपर्वत्वात् सुपर्वा उच्यते, अत एव हेतोः देवेष्वपि तोष इति भावः। कोऽर्थः-अतीतवर्तमानैष्यतां ६ आद्यार्हतां वंशस्थापनादि हरेजीतमति कृत्वा शको वंशस्थापने प्रस्तुते इक्षुयष्टिहस्त आगतोऽर्हदृष्टिं इक्षौ इक्षुविषये खामिनो रुचिं दृष्ट्वोचे-प्रभो ! किं इक्षु अकुर्भक्षयसि 'अकु भक्षणे' इति । ९ अर्हन् करं प्रासारयत् अतो हेतोः हरिरिक्ष्वाकुवंशमस्थापयत् । तदाऽन्येऽपि क्षत्रिया इक्षु भुञ्जते तेन भवन्तीक्ष्वाकवः ।
प्रभोश्च पूर्वजाः काश्यं इक्षुरसं पीतवन्तस्ततः काश्यपगोत्रम् । १२ इक्षवश्च तदा पानीयवल्लीवद्रसं गलन्ति स्म ।। २२ ॥
विलोक्य यं पालनके शयालु
यशोऽस्य लोकत्रयपूरकं च । कार्य कलामञ्चति कारणस्ये
त्युक्तिम॒षैवानिमिषैरघोषि ॥ २३ ॥ विलोक्य यं० । अनिमिषैर्देवैरित्युक्तिम॒षैवालीकैवाऽघोषि१८घोषिता । इतीति किम् ? कार्य कारणस्य कलां अञ्चति प्राप्नोति,
किं कृत्वा यं भगवन्तं पालनके शयालुं विलोक्य खपनशीलं . दृष्ट्वा, च अन्यत् , अस्य भगवतो यशो लोकत्रयपूरकं विश्व
व्यापकं च विलोक्य । कार्य घटः कारणं मृत्पिण्डः, मृत्पिण्डानु२२ मानेन च घटः स्यात् , अत्र तु भगवान् कारणं यशस्तु कार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org