SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् किंलक्षणाः कोकाः ? मध्येनिशं निशाया मध्ये रात्रौ निर्भरेण दुःखेन पूर्णा पूरिताः । किंविशिष्टे भगवति ? शस्तमहोनिरस्ततमस्ततो-प्रशस्ततेजसा निराकृता तमस्ततिः पापश्रेणि- ३ फैन । सूर्यपक्षे तमोऽन्धकारं ज्ञेयम् ॥२०॥ - निवेश्य यं मूर्द्धनि मन्दरस्या चलेशितुः स्वर्णरुचिं सुरेन्द्राः। प्राप्तेऽभिषेकावसरे किरीट मिवानुवन्मानवरत्नरूपम् ॥ २१ ॥ निवेश्य यं० । सुरेन्द्रा इन्द्रा अभिषेकावसरे जन्माभिषेक- ९ समये प्राप्ते सति यं भगवन्तं अनुवन् स्तुवन्ति स्म । किं कृत्वा ? अचलेशितुः पर्वतेश्वरस्य मन्दरस्य मेरोमूर्द्धनि मस्तके किरीटं मुकुटमिव स्वर्णरुचिं सुवर्णकान्ति यं स्वामिनं निवेश्योपवेश्य, १२ किं वि० भगवन्तम् ? मानवरत्नरूपं मनुष्येषु रत्नप्रायम्, अन्यस्याप्यचलेशितुः पृथ्वीपतेर्मूर्द्धनि मस्तके मुकुटो निवेश्यते । अर्थवशाद्विभक्तिपरिणामः, कीदृशो मुकुटः ? खर्णरुचिः, १५ पुनः कीदृशः?-मानवरत्नरूपः, माया लक्ष्म्या वा नवरत्नरूपश्च यः स मानवः ॥ २१ ॥ सुपर्वसु स्वानुचरेषु तोषा. दिवेक्षुदण्डेऽस्य सुपर्वणीन्द्रः। शिशोर्विदित्वा रुचिमाशुवंश मिक्ष्वाकुनामाङ्कितमातनिष्ठः ॥ २२॥ २१ । सुपर्वसु खानु० । इन्द्रः आशु शीघ्रं इक्ष्वाकुनामाङ्कितवंशमातनिष्ट विस्तारयामास । कस्मादिव ? उत्प्रेक्षते-खानुचरेषु २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy