________________
६
जैनकुमारसंभवं [प्रथमः निवासयोग्ये । मणिपक्षे श्रीधानि श्रियो लक्ष्या गृहे, पुनः किं०? सन्मौलिनि० ? प्रशस्यमुकुटस्य निवासयोग्ये ॥ १८ ॥ ३ यो गर्भगोऽपि व्यमुचन्न दिव्यं
ज्ञानत्रयं केवलसंविदिच्छुः । विशेषलाभं स्पृहयन्न मूलं .....
खं सङ्कटेऽप्युज्झति धीरबुद्धिः॥१९॥ यो गर्भगो०। यो भगवान् गर्भगोऽपि गर्भस्थितोऽपि दिव्यं देवलोकसम्बन्धि ज्ञानत्रयं मतिश्रुतावधिलक्षणं न व्यगुचत् न ९मुक्तवान् , किंविशिष्टो भगवान् ? केवलसंविदिच्छुः केवल. ज्ञानं प्राप्तुकामः । दृष्टान्तमाह-धीरबुद्धिः पुमान् विशेषलाभ स्पृहयन् वाब्छन् सङ्कटेऽपि मूलं खं मूलद्रव्यं नोज्झति न १२ त्यजति ॥ १९॥
मध्येनिशं निर्भरदुःखपूर्णा
स्ते नारका अप्यदधुः सुखायाम् । यत्रोदिते शस्तमहोनिरस्त
तमस्ततौ तिग्मरुचीव कोकाः ॥ २०॥ मध्येनिशं० । यत्र यस्मिन् भगवति उदिते जाते सति १८ नारका अपि सुखायां सुखानुभवं अदधुः धरति स्म । सुखायामि .. त्यत्र 'सुखादेरनुभवे' (३।४।३४) इति आयप्रत्यये श्रद्धावत्
सुखायाशब्दः, किंलक्षणा नारकाः? मध्ये चित्तेऽनिशं निरन्तरं २१ निर्भरं दुःखपूर्णाः क्षेत्रजाऽन्योन्यकृतपरमाधार्मिककृतत्रिविध
वेदनाभिर्बाढं दुःखिता इत्यर्थः । के इव ? कोकाश्चक्रवाका इव, २३ यथा कोकास्तिग्मरुचि सूर्ये उदिते सति सुखायां सुखं दधति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org