SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सर्ग:] टीकया सहितम् इक्ष्वाकुभूरित्यभिधामधाभू र्यदा निवेशात्प्रथमं पुरोऽस्याः । नामेस्तदा युग्मिपतेः प्रपेदे तनूजभूयं प्रभुरादिदेवः ॥ १७ ॥ इक्ष्वाकुभूरित्यभिधामधा० । यदा यस्मिन्नवसरे अस्याः पुरो नगर्या निवेशाद्रचनाया प्रथमं पूर्व भूर्भूमिरिक्ष्वाकुभूरित्य-६ भिधां नाममधात् धरति स्म, तदा तस्मिन्नवसरे आदिदेवप्रमुर्युग्मिपते भेयुगलिखामिनो नाभिनृपस्य तनूजभूयं पुत्रभावं प्रपेदे प्रपन्न इत्यर्थः । तनूजभूयमित्यत्र तनूजेन भवनं तनूज-९ भूयं 'हत्याभूयं भावे' (५.१।३६) इति सूत्रेण भूय इति निपातः ॥ १७॥ यत्रोदरस्थे मरुदेव्यदीव्य त्पुण्येति साध्वीति न कस्य चित्ते । श्रीधानि सन्मौलिनिवासयोग्ये ___ महामणौ रत्नखनिः क्षमेव ॥ १८॥ १५ यत्रोदरस्थे । यत्र यस्मिन् भगवति उदरस्थे सति मरुदेवी पुण्या इति पवित्रा निःपापत्वात् , साध्वी इति निर्मलशीलत्वात् , कस्य चित्ते न अदीव्यत् न दिदीपे, केव ? रत्नखनिः क्षमेव, यथा १८ रत्नखनिः क्षमा महामणौ उदरस्थे मध्यस्थिते सति कस्य चित्ते न दीप्यति; अपि तु सर्वस्यैव चित्ते दीप्यत इति भावः । किंविशिष्टे भगवति ? श्रीधान्नि श्रियः शोभाया गृहे । पुनः किंविशिष्टे भगवति ? सन्मौलिनिवासयोग्ये सतां साधूनां शीर्ष-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy