SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [प्रथमः यियाचिषौ यत्र जने यथेच्छं कल्पद्रुमाः कल्पितदानवीराः। निवारयन्ति स मरुद्विलोल प्रवालहस्तैः प्रणयस्य दैन्यम् ॥ १५ ॥ यियाचिषौ यत्र जने यथेच्छम् । यत्र यस्यां नगर्या कल्प६ द्रुमाः कल्पवृक्षा मरुद्विलोलप्रवालहस्तैर्वायुना चञ्चलानि किशलयान्येव हस्तास्तै ने लोके 'तृणं लघु तृणात् तूलं तूलादपि हि याचकः' इति न्यायात् प्रणयस्य दैन्यं याच्नाया दीनभावं निवा९रयन्ति स, किंविशिष्टे जने? यथेच्छं यियाचिषौ यदृच्छया गृहभूषणादि याचितुमिच्छौ, किंलक्षणाः कल्पद्रुमाः ? कल्पितदानवीराः वाञ्छितदाने समर्थाः ॥ १५ ॥ १२ पूषेव पूर्वाचलमूर्ध्नि घूक कुलेन घोरं ध्वनतापि यत्र । नाखण्डि पाखण्डिजनेन पुण्य१५ भावः सतां चेतसि भासमानः ॥ १६ ॥ पूषेव पूर्वाचलमूर्ध्नि घूक० । यत्र यस्यां नगर्यां पाखण्डिजनेन सतां चेतसि भासमानो देदीप्यमानो पुण्यभावो न अखण्डि न १८ खण्डयामास । किंलक्षणेन पाखण्डिजनेन ? घोरं ध्वनतापि रौद्रं यत् (तत्) प्रलपतापि । क इव ? पूषा इव, यथा पूषा सूर्यो घोरं ध्वनतापि धूककुलेन न खण्ड्यते । सूर्यः किंलक्षणः ? पूर्वाचलमूर्ध्नि उदयाचलमस्तके भासमानः ॥ १६ ॥ इति पुरीवर्णनम् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy