SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् हल्लीसके श्रीजिनवृत्तगान__ यद्वालिकालिः किल चारणीन् । शुश्रूषमाणानिह निश्चलय्या ..ऽलुम्पद्दिवः सप्तऋषिव्यवस्थाम् ॥ १३ ॥ हल्लीसके श्रीजिनवृत्तगानैर्यतालिकालिः । यस्याः पुर्या बालिकानां श्रेणिः । किल इति सत्ये । दिव आकाशस्य सप्तऋषि-६, व्यवस्थां अलुम्पत् , सप्तेभ्योऽप्यधिकतरा मुनयो जाता इत्यर्थः । किं कृत्वा ? हल्लीसके श्रीजिनवृत्तगानैः, रासकमध्ये श्रीऋषभदेवस्य गुणगानैः, इहाकाशे । शुश्रूषमाणान् श्रोतुमिच्छतः । ९ चारणीन् आकाशगामिनो मुनीन् । निश्चलय्य निश्चलीकृत्य ॥ १३॥ दत्तोदकभ्रान्तिभिरिन्द्रनील- १२ भित्तिप्रभाभिः परिपूर्यमाणाः। आनाभिनीरा अपि केलिवापी यस्यां जनो मन्दपदं जगाहे ॥ १४ ॥ १५ दत्तोदकान्तिभिरिन्द्रनील० । यस्यां पुर्यां जनो लोकः । केलिवापीः क्रीडासक्तवापीर्मन्दपदं मन्दमन्दपदन्यासं यथा भवति तथा जगाहे अवगाहयामास । किंलक्षणा वापीः ? १८ आनामिनीरा अभि नाभिं यावदेव नीरं यासां ता आना। पुनः किंविशिष्टाः? इन्द्रनीलभित्तिप्रभाभिः परिपूर्यमाणाः इन्द्रनीलसत्कमणिभित्तेः प्रभाभिः सामस्त्येन भ्रियमाणाः ।२१ किंविशिष्टाभिरिन्द्रनीलभित्तिप्रभाभिः ? दत्तोदकान्तिभिर्दत्ता उदकस्य भ्रान्तिर्याभिस्त्राभिर्दत्तो० ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy