________________
जैनकुमारसंभवं
[प्रथमः
रत्नाकराणां मकराकरत्व
मेवावशिष्टं बुबुधे बुधेन ॥११॥ ३ पणायितुं यत्र निरीक्ष्य रत्न० । यत्र यस्यां नगर्यां बुधेन विदुषा रत्नाकराणां मकराकरत्वं मकरमत्स्यादीनामाकरत्वमेवावशिष्टं उद्धृतं बुबुधे ज्ञातवान् । किं कृत्वा ? आपणेषु हट्टेषु ६ पणायितुं व्यवहाँ रत्नराशिं मौक्तिककर्केतनहंसगर्भपद्मरागादिरत्नसमूहं प्रकाशीकृतं प्रकटीकृतं वीक्ष्य दृष्ट्वा । समुद्रस्य रत्नाकर-मकराकर इति द्वे नाम्नी प्रसिद्धे । रत्नाकरत्वं पुर्या ९गृहीतं, मकराकरत्वं तु समुद्रे स्थितमिति भावः ॥ ११ ॥
यच्छ्रीपथे सञ्चरतो जनस्य
मिथो भुजेष्वङ्गदधट्टनोत्थैः । १२ व्यतायत व्योमगतैः स्फुलिङ्गै
नक्षत्रचित्रं न दिवापि कस्य ॥ १२ ॥ यच्छीपथे सञ्चरतो जनस्य० । यत्र यस्यां नगर्यां व्योमगतै१५राकाशस्थितैः स्फुलिङ्गैर्दिवापि दिवसेऽपि कस्य पुरुषस्य नक्षत्र
चित्रं नक्षत्रसत्काश्चर्य न व्यतायत न विस्तारयामास, 'तनूयी
विस्तारे' तन् यस्तनीत अड् 'क्यः शिति' (सि० ३।४।७०) १८इति (क्यः) ततश्च 'तनः क्ये' (सि० ४।२।६३) इति
नकारस्थाने आकार इति प्रयोगो ज्ञेयः। किंलक्षणैः स्फुलिङ्गैः०,
यच्छ्रीपथे सञ्चरतो जनस्य मिथो भुजेषु अङ्गदघट्टनोत्थैः, २१ यस्यां नगर्यां राजमार्गे सञ्चरतो जनस्य लोकस्य मिथः परस्परं
भुजेषु बाहुषु अङ्गदानां बाहुरक्षाणां घट्टनमास्फुलनम् , ततः २३ समुत्थितैरुत्पन्नैरित्यर्थः ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org