________________
टीका सहितम्
निरे विस्तारयामासुः चित्रशब्देन चित्रकर्म आश्चर्यं वा । चित्रशालाश्चित्रं कुर्वन्ति, एतद्युक्तं यस्य यद्वस्तु स्यात् स तदन्येभ्योऽपि दत्ते युक्तमेतत् । यत् तत्र तासु चित्रशालासु मुक्ता अपि गुणै - ३ वितानेषु बन्धम् आपुः प्राप्तास्तदद्भुताय आश्चर्याय जातम्, ये मुक्ताः सिद्धाः स्युस्ते गुणैः सत्वरजस्तमोलक्षणैः बन्धं कथमावन्ति ? अथवा ये वितानेषु मुक्ताः स्थापिताः स्युः ते गुणै - ६ विनयादिभिर्बन्धं कथम् ? अथवा ये मुक्ताश्चौरादयः स्युः ते गुणै रज्जुभिश्च ० ? इत्थं विरोधः । अथ विरोधपरिहारमाहमुक्ताशब्देन मौक्तिकानि वितानेषु चन्द्रोदयतेषु गुणैस्तन्तु - ९ भिर्बन्धं आपुरिति तत्त्वम्, अत्र विरोधालङ्कारो ज्ञेयः ॥ ९ ॥ प्रभुप्रतापप्रतिभग्नचौरे पौरे जने ज्योतिषिकैर्न यत्र । चौराधिकारः पठितोऽपि सम्यक् प्रतीयते स्मानुभवेन वन्ध्यः ॥ १० ॥ प्रभुप्रतापप्रतिभग्नचौरे० । यत्र यस्यां पुर्यां ज्योतिषिकैर्गणकै- १५ श्रीराधिकारः सम्यक् पठितोऽपि न प्रतीयते स्म ज्ञायते स्म । किंभूतश्चौराधिकारः ? अनुभवेन विना वन्ध्यो फललक्षणया रहितः, कोऽपि चौर्य न करोतीति भावः । व सति ? पौरे जने १८ नागरिकलोके प्रभुप्रतापप्रतिभग्नचौरे सति - प्रभोः श्रीऋषभदेवस्य प्रतापात् प्रतिभग्नाश्चौरा येन स प्रभुप्रताप ० तस्मिन् ॥ १० ॥ पणायितुं यत्र निरीक्ष्य रत्नराशि प्रकाशीकृतमापणेषु ।
२१
सर्गः ]
Jain Education International
For Private & Personal Use Only
१२
२३.
www.jainelibrary.org