SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [ प्रथमः रात्रिषु । कुलटा चौराणामभिलाषसाधकं तम एव तत्र च तन्नास्तीति भावः ॥ ७ ॥ ३ यद्वेश्मवातायनवर्त्तिवामाजने विनोदेन बहिः कृतास्ये । व्योमाम्बुजोदाहरणं प्रमाणविदां भिदामापदभावसिद्धयै ॥ ८ ॥ यद्वेश्मवातायनवर्तिवामा० । प्रमाणविदां तार्किकाणां व्योमांबुजोदाहरणम् - आकाशकमलदृष्टान्तः, अभावसिद्ध्यै अभावसि - ९ द्ध्यर्थं प्रयुक्तं सत् भिदामापत् भेदं प्राप । यदसद्वस्तु प्रमाणेन स्थाप्यते सा अभावसिद्धिः कथ्यते । महीतले घटो नास्ति यथा आकाशे कमलम् । क्व सति ? यद्वेश्मवातायनवर्त्तिवामाजने १२ यस्या नगर्या धवलगृहसत्क गवाक्षवर्तिनि स्त्रीजने, अत्र जातावेकवचनम्, विनोदेन बहिः कृतास्ये सति कौतुकेन गवाक्षस्य द्वारिकाया बहिः कृतमुख इत्यर्थः । स्त्रीणां मुखान्येव आकाशे १५ कमलानि सत्यानि । अत एवाकाशकमलानामसत्कल्पना वादिनां व्यर्था जातेति भावः ॥ ८ ॥ १८ युक्तं जनानां हृदि यत्र चित्रं वितेनिरे वेश्मसु चित्रशालाः । यत्तत्र मुक्ता अपि बन्धमा पुगुणैर्वितानेषु तदद्भुताय ॥ ९ ॥ युक्तं जनानां हृदि यत्र चित्रं । यत्र यस्यां पुर्यां वेश्मसु २२ आवासेषु चित्रशाला जनानां लोकानां हृदि चित्रं युक्तं विते Jain Education International 1 For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy