________________
सर्गः] टीकया सहितम् किंलक्षणं नृत्यम् ? कणत्किकिणिकानुयायि शब्दायमानक्षुद्रघंटिकाधरिकामनुगच्छत् ॥ ५॥
तमिस्रपक्षेऽपि तमिस्रराशे
रुद्धेऽवकाशे किरणैर्मणीनाम् । यस्यामभूवनिशि लक्ष्मणानां
श्रेयोऽर्थमेवावसथेषु दीपाः॥६॥ तमिस्रपक्षेऽपि तमिस्रराशे० । यस्यां पुर्यां लक्ष्मणानां लक्ष्मीवतां आवसथेष्वावासेषु निशि रात्रौ दीपाः श्रेयोऽर्थमेव मङ्गलार्थमेवाभूवन् , निशि इत्यत्र 'मासनिशासनस्य शसादौ लुग्वा' ९' (सि०२।१।१००) इति सूत्रेणाकारलोपः । क सति ? तमिस्रपक्षेऽपि अन्धकारपक्षेऽपि, तमिस्रराशेरन्धकारसमूहस्य मणीनां किरणैरवकाशं रुद्धे सति । अत एव दीपानां श्रेयोऽर्थत्वमेव १२ तमसो मणिकरणैरेव रुद्धत्वादिति भावः ॥ ६ ॥
रत्नौकसां रुनिकरेण राकी
कृतासु सर्वास्वपि शर्वरीषु । सिद्धिं न मत्रा इव दुःप्रयुक्ता
यत्राभिलाषा ययुरित्वरीणाम् ॥ ७॥ रत्नौकसां० । यत्र यस्यां नगर्याम् इत्वरीणामसतीनां अभि-१८ लाषाः मनोरथाः सिद्धिं न ययुः न गताः, क इव ? दुःप्रयुक्ता अविधिव्यापारिता मन्त्राः (इव) सिद्धिं न यान्ति । कासु सतीषु ? रत्नौकसां रत्नमयावासानां रुग्निकरेण कान्तिसमूहेन, सर्वाखपि शर्वरीषु रात्रिषु, राकीकृतासु राका पूर्णिमा तत्सदृशासु कृतासु २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org