SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं [प्रथमः श्रव० । ताटङ्कपक्षे श्रवणोचितश्रीः, कर्णस्य योग्या श्रीलक्ष्मी यस्य सः॥३॥ ३ नदद्भिरर्हद्भवनेषु नाट्य क्षणे गभीरध्वनिभिर्मुदङ्गैः। यत्राऽफलत्केलिः कलापिपते६ विनापि वर्षा घनगर्जिताशा ॥४॥ नदद्भिरहद्भवनेषु नाट्य० । यत्र यस्यां नगर्यां केलिः क्रीडा, कलापिपतेः मयूराणां श्रेणेः, वर्षाकालं विनापि घनगर्जिताशा ९मेघगर्जारवस्याशा अफलत् । वर्षाशब्दो बहुवचनान्तो ज्ञेयः यथा प्राणदारासुप्रमुखाः । कैर्मृदंगैः । मृदङ्गैः किं कुर्वद्भिः ? अर्हद्भ वनेषु सर्वज्ञप्रासादेषु नाट्यक्षणे नाटकावसरे नदद्भिः शब्दाय१२ मानैः। किंविशिष्टैर्मृदङ्गैः? गम्भीरध्वनिभिः गम्भीरो ध्वनि दो येषां ते गम्भीरध्वनयः तैः ॥ ४ ॥ हर्षादिवाधास्थितनायकानां प्राप्य स्थिति मौलिषु मन्दिराणाम् । यस्यां क्वणत्किङ्किणिकानुयायि नित्यं पताकाभिरकारि नृत्यम् ॥५॥ १८. हर्षादिवाधःस्थितनायकानां० । यस्यां नगर्यां पताकाभिः नित्यं, निरंतरं नृत्यं अकारि, उत्प्रेक्षते हर्षादिव । किं कृत्वा ? मन्दिराणां आवासानां मौलिषु शृङ्गेषु स्थितिं प्राप्य । किंविशिष्टानां मन्दिराणाम् ? अधःस्थितनायकानां अधःस्थिता नायका खामिनो येषु, २२ अत एव हेतोः पताकानां उपरिस्थितत्वहर्षान्नृत्यमिति भावः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy