________________
सर्गः] टीकया सहितम् स्मनेपदमत्र । किंलक्षणा लोकाः? सम्पन्नकामाः सम्पन्नाः कामा अभिलाषा मनोरथा येषां ते सम्पन्नकामास्तत्कालमेव प्राप्तमनोवाञ्छितसर्वसुखसम्पत्तित्वात्, पुनः किं०? नयनाभिरामाः ३ नयनानां लोचनानाम् अभिरामाः मनोज्ञाः सर्वाङ्गसौभाग्यसुन्दरत्वात् । पुनः किंविशिष्टाः? सदैव जीवत्प्रसवः सर्वकालं जीवितावधि जीवन्तः प्रसवा अपत्यानि येषां ते सदैवजीवत्प्रसवाः। ६ पुनः किंविशिष्टाः ? अवामा न परस्परं प्रतिकूला मिथः सौहार्दपरत्वात् । पुनः किंविशिष्टाः ? उज्झितान्यप्रमदावलोका उज्झितस्त्यक्तोऽन्यप्रमदानां परस्त्रीणामवलोको दर्शनं यैस्ते उज्झित०९ परस्त्रीपराङ्मुखत्वेन परनारीसहोदरेति लब्धबिरुदत्वात् । पुनः किंविशिष्टाः ? अदृष्टशोकाः न दृष्टः शोको यैस्ते अदृष्टशोकाः इष्टवस्त्वादेरवियोगत्वात् ॥ २॥
चन्द्राश्मचञ्चत्कपिशीर्षशाली
सुवर्णशालः श्रवणोचितश्रीः। यत्राभितो मौक्तिकदत्तवेष्ट
ताटङ्कलीलामवहत्पृथिव्याः ॥३॥ चन्द्राश्मचञ्चत्कपिशीर्षशाली । यत्र यस्यां नगर्यां सुवर्णशालः वर्णप्राकारः अभितः समन्ततः पृथिव्या मौक्तिकदत्तवेष्टितां १८ ताटङ्कलीलां मौक्तिकैर्दत्तो वेष्टो यस्मिन् एवंविधो यस्ताटङ्कः कर्णाभरणं तस्य लीलां अवहत् । किंलक्षणः सुवर्णशाला? चन्द्राश्मचञ्चत्कपिशीर्षशाली चन्द्रकान्तसत्कानि चञ्चन्ति प्रस-२१ रन्ति कपिशीर्षाणि तैः शाली शोभमानः । पुनः किंविशिष्टः? श्रवणोचितश्रीः श्रवणायोचिता योग्या श्रीः शोभा यस्य स २३
१२
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
ww