________________
जैनकुमारसंभवं [प्रथमः दूरस्थानगास्तदासन्ननरानाहुस्ते कुशला इति कालेन सा कोशला
अभूत् । एतेन दक्षिणभरतार्धमध्यवर्तित्रिभागरूपस्य कौश३ लायाः स्थानस्य शाश्वतत्वं तन्निवेशस्य च गृहप्राकारारामलक्ष. णस्य धनदकर्तृकत्वं उक्तं भवति । उत्प्रेक्ष्यते-खस्याः आत्मनः सम्बधिन्याः प्रियाया इष्टायाः। (पुरः) पुरतो नगर्याः अलकाया ६ वयस्यामिव सखीमिव । सख्यं हि समानशीलयोरेव शोभते इत्य. नेन कोशलायाः केनाऽपि रामणीयकगुणेन अलकायाः सादृश्य मन्यन्ते । तेन च कोशलायां दृष्टायां अदृष्टामप्यलकां दृष्टामिव ९ मन्यन्ते । अन्योऽपि धनेशो धनवान् खस्याः प्रियायाः कान्तायाः पुरोऽग्रे वयस्यां सखी निवेशयति । ननु इदं शास्त्रं नगर
सागरशैलऋतुचन्द्रार्कोदयोद्यानजलकेलिमधुपानसुरतमन्त्रदूतप्र१२याणाजिनायकाभ्युदयविवाहविप्रलम्भकुमारवर्णनरूपविशिष्टाष्टादशवर्णनोपेतत्वान्महाकाव्यम् तच्चादौ मङ्गलाभिधानमन्तरेण (कथं) श्रोतुः प्रवृत्तिनिमित्तं भवति । नैवम् । अस्य महाकाव्यस्य १५ तत्र तत्राधिकारे श्रीऋषभदेवनाममन्त्रपवित्रितस्य सर्वस्याऽपि मङ्गलमयत्वात् मङ्गलमयस्यापि मङ्गलान्तरकरणे अनवस्थादौस्थ्यस्य
दुर्निवारत्वात् । न हि प्रकाशमयः प्रदीपः खप्रकाशे प्रदीपा१८न्तरमपेक्षते । किञ्च 'यदध्यासितमर्हद्भिस्तद्धि तीर्थ प्रचक्षते', इति वचनात् बहुभिस्तीर्थकृद्भिरध्यासितायाः कोशलायास्तीर्थ
रूपतैव । शास्त्रारम्भे च तन्नामग्रहणात् कर्तुः श्रोतुश्च निश्चितो २१ मङ्गलाभ्युदय इति सुस्थम् ॥ १ ॥ सम्पन्नकामा नयनाभि
रामा-यत्र यस्यां नगयों एवंविधा, लोका न्यविशन्त, धातूनाम२३ नेकार्थत्वात् वसन्ति स्म 'निविशः' (३।३।२४) इति सूत्रेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org