________________
३
सर्गः] टीकया सहितम् कर्तृ० १ कोशला अयोध्या इति पुरी नगरी । अयोध्यायाः शाश्वतस्वेन त्रिकालव्यापकत्वेऽपि वर्तमाननिर्देशः । अतीतभविष्यतोः कालयोर्विनष्टानुत्पन्नत्वेन अवस्तुत्वात् वर्तमानस्यैव कालस्य ३ वास्तवत्वात् । यदागमः "भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ॥ १॥" क्वास्ति उत्तरस्यां दिशि कौबेयाँ ककुभि । इह ६ यद्यपि नानादेशनिवेशभाजनं जनं प्रतीत्य विवक्षितनगर्यादिकनियमनं न तादृशीं सङ्गतिमङ्गति तथापि सकले दिग्मण्डले उत्तरस्याः प्रशस्यत्वात् तन्नामोत्कीर्तनं चकार कविः,९ खाक्रान्तं दक्षिण दिशमाश्रित्य वा । कथंभूता कोशला ? परमर्द्धिलोकैः परीता--परमा ऋद्धिर्धनकनकवसनादिका येषां ते परमर्द्धयस्ते च ते लोकाश्च परमर्द्धिलोकास्तैः परीता परिगता १२ अन्विता इति यावत् , अथ कोशलामेव प्रधानपुरुषकतत्वेन विशिनष्टि-~-धनेशो धनद उत्तरदिक्पालो यां कोशलां पुरी निवेशयामास स्थापयामास, ऋषभजन्मतः पूर्वलक्षाणां १५ विंशतौ व्यतीतायाम् । एवं हि आगमे श्रूयते, यदा किल भगवान् ऋषभस्वामी अस्या अवसपिण्यास्तृतीयारकस्यावसाने विश्वव्यवहारवन्ध्यत्वेन मुग्धमतीनां प्रजानां निखिलन्याय-१८ प्रदर्शनाय राज्यभारमङ्गीचकार । तदा च सौधर्मसुरपतिनिदेशवशंवदो धनदो वर्ण्यसौवर्णप्राकारां अभ्रंलिहस्फुटस्फाटिकागारां संभवन्नवनवपूजोत्सव विहारां नवयोजनविस्तारां द्वाद-२१ शयोजनायामां सरःसरसदीर्घिकागृहवाटिकारामाभिरामां काले भविष्यदयोध्याभिधानां विनीतां पुरीं निवेशयामास । ततः २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org