SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ३ सि जैनकुमारसंभवं [प्रथमः यस्मै काव्ययुगप्रदानवरदा, श्रीशारदा देवता, श्रीमज्जैनकुमारसम्भवमहाकाव्यादिकर्ता कलौ ॥ सिद्धान्तोदधिचन्द्रमाः सहृदयश्रेणीशिरःशेखरः, सोऽयं श्रीजयशेखराख्यसुगुरु याजगन्मङ्गलम् ॥२॥ अत्राऽयं किल सम्प्रदायः-लौकिककाव्यानुसारेण 'अस्त्यु६त्तरस्यां दिशि' इति सप्ताक्षराणि वर्तन्ते इति न ज्ञातव्यं किन्तु श्रीस्तंभतीर्थे श्रीमदञ्चलगच्छगगनप्रभाकरेण यमनियमासनप्राणायामाद्यष्टाङ्गयोगविशिष्टेन समाधिध्यानोपविष्टेन निजम९तिजितसुरसूरिणा परमगुरुश्रीजयशेखरसूरिणा चन्द्रमण्डलसमुज्ज्वलराजहंसस्कन्धोषितया चञ्चच्चलकुण्डलाद्याभरणविभूषितया भगवत्या श्रीभारत्या प्रभो ! त्वं कविचक्रवर्तित्वं च १२ प्राप्य निश्चित इवासीनः किं करोषि ? इति प्रोच्य ( अस्त्युत्तरस्यां दिशि कोशलेति० ॥ १॥ सम्पन्नकामा नयनाभिरामा० ॥ २ ॥ एतदाद्यकाव्ययुग्मं दत्वा विहितसुरासुरसेव१५श्रीयुगादिदेवसत्कजन्मबालकेलियौवनमहेन्द्रस्तवनसुमंगलासुनन्दापाणिग्रहणचतुर्दशस्वप्नदर्शनभरतसंभवप्रातर्वर्णनपुरःसरं जैनं श्रीकुमारसम्भवमहाकाव्यं कारितं, यथा लौकिककुमारसम्भवे १८ कुमारः कार्तिकेयः तस्य सम्भवस्तथा अत्र कुमारो भरतः तस्य संभवो ज्ञेयः । शिशवश्च सर्वेऽपि कुमारा उच्यन्ते अतः कुमारसम्भव इति नाम्ना महाकाव्यमत्रापि ज्ञेयम् । तेन २१ आदौ ध्यात्वा श्रीशारदां देवीं इति प्रारम्भे न दुष्टम् । अत्र ग्रन्थे च क्वापि समासं कृत्वा व्याख्या करिष्यते, कापि शब्दस्य पर्यायमात्रमेव प्रोच्य व्याख्या करिष्यते । २४ अस्त्युत्तरस्यां दिशि कोशलेति० । अस्ति विद्यते-कासौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy