________________
श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारेश्रीमदश्चलगच्छीयकविचक्रवर्त्तिजयशेखरसूरिविरचितं जैनकुमारसंभवमहाकाव्यम् । तच्छिष्यश्रीधर्मशेखरसूरिकृतटीकया सहितम् । विश्वहितबोधिदायकश्रीअमीविजयगुरुभ्यो नमः
६
॥ अर्हम् ॥ अथ प्रथमः सर्गः प्रारभ्यते । अस्त्युत्तरस्यां दिशि कोशलेति,
पुरी परीता परमर्द्धिलोकैः। निवेशयामास पुरः प्रियायाः,
खस्या वयस्यामिव यां धनेशः॥१॥ सम्पन्नकामा नयनाभिरामाः,
सदैवजीवत्प्रसवा अवामाः। यत्रोज्झितान्यप्रमदाऽवलोका अदृष्टशोका न्यविशन्त लोकाः ॥२॥
युग्मम् । टीकाकारमङ्गलाचरणम्ध्यात्वा श्रीशारदां देवीं, नत्वा श्रीगुरूनपि। कुमारसम्भवस्येयं, विवृतिर्लिख्यते मया ॥१॥
१४
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org