SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३४९ उक्तवति सखी किंविशिष्टः सखीगणः ? विग्रहे शरीरे घनरुचिः बहुकान्तिः, पक्षे विग्रहे युद्धे धनाभिलाषः, पुनः किंवि० मारभङ्गिवित् मारः कन्दर्पो विघ्नो वा तस्य भङ्गौ ३ विच्छित्तौ निपुणः ॥ ५९॥ प्रागपि प्रचुरकेलिकौतुकी, सोऽदसीयवचसाऽभृशायत । नीरनाडियुजि किं न वापता वेति वृष्टिघनतां धनाधनः ॥६०॥ प्राग० स सखीगणः अदसीयवचसाऽभृशायत अमुष्याः ९ सुमङ्गलायाः वचनेन अभृशायत प्रगल्भो बभूव, किंलक्षणः सखीगणः? प्रागपि प्रचुरकेलिकौतुकी अग्रेऽपि बहुक्रीडाविषये कौतुकवान् , नीरनाडियुक्ते वापतौ बृहस्पती धनाधनो मेघः १२ वृष्टिघनतां किं न एति न याति ? अपि तु यात्येव ॥ ६० ।। सुश्रुताक्षरपथानुसारिणी, ज्ञातसंमतकृताङ्गिकक्रिया। १५ आत्मकर्मकलनापटुर्जगो, कापि नृत्यनिरता स्वमार्हतम् ॥६१॥ सुश्रु० कापि सखी नृत्यनिरता सती खं आत्मानं अर्हतं १८ जिनं जगौ, किंविशिष्टा सखी ? सुश्रुताक्षरपथानुसारिणी, मुटु अत्यर्थं श्रुतः कर्णगोचरीकृतः अक्षरपथो वर्णमार्गः तं अनुसरतीत्येवंशीला यादृग् गीतं वाद्यं तादृग् नृत्यमपि स्यात् , पुनः किंवि० ज्ञातसंमतकृतांगिकक्रिया ज्ञाता संमता आंगिकी २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy