SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ टीकया सहितम् [ दशमः तत्त० तत् तस्मात् कारणात् खरसनष्टनिद्रया स्वभावगतनिद्रया मया नैशिकोऽपि रात्रिसंबंधी अपि समयः वासरो दिवसः ३ कथ्यतां, किंविशिष्टया मया ? तत्तदुत्तमकथातरंगिणी भंगिमज्जनकसज्जचेतसा ताश्च ताश्च उत्तमकथा एव तरंगिण्यो नद्यस्तासां भङ्गः कल्लोलास्तत्र मज्जनके स्नाने सज्जचेतसा ॥५७॥ ३४८ स्वप्रभङ्गभयकम्प्रमानसां, मां विबोध्य सरसोक्तियुक्तिभिः । जाग्रतोऽस्ति न हि भीरिति श्रुतिनयिषीष्ट चरितार्थतां हलाः ॥ ५८ ॥ स्वम० हे हला इति श्रुतिश्चरितार्थतां सत्यार्थतां नायिषीष्ट प्रापयिष्ट, इतीति किं ? जाग्रतो भीर्नहि स्यात्, किं कृत्वा ? १२ खमभङ्गभयकम्प्रमानसां स्वप्नभङ्गभयेन कंपनशीलचित्तां मां सरसोक्तियुक्तिभिर्विबोध्य जागरयित्वा ॥ ५८ ॥ १५ एवमूचुषि विभोः परिग्रहे, विग्रहे घनरुचिः सखीगणः । धर्मधामगुणगीर्णवाक्शरा सारमारभत मारभङ्गिवित् ॥ ५९ ॥ धर्मः १८ एव० सखीगणः धर्मधामगुणगीर्णवाक्शरासारं पुण्यं धनुर्वा धाम स्थानं येषान्ते धर्मधामानः एवंविधा ये गुणा विनयादयः प्रत्यञ्चा वा तेभ्यो गीर्णाः निःसृताः वाक्शरा वचनणास्तेषां आसारं वेगवदृष्टिं आरभत प्रारंभे, क सति ? २२ विभोः स्वामिनः परिग्रहे कलत्रे एवं पूर्वोक्तप्रकारेण ऊचुषि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy