SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३४७ यद्यसौ भुवनवञ्चनोत्सुका, स्वमराशिमपहृत्य तादृशम् । दास्यते किमपि गर्हितं तदा, पत्तने वसति लुण्टितासि हा ॥ ५५ ॥ यद्य० यदि असौ निद्रा भुवनवंचनोत्सुका सती स्वप्नराशि खप्नसमूहं अपहृत्य तादृशं किमपि गर्हितं निंदितं स्वप्नं दास्यते, ६ तदा हा इति खेदे वसति पत्तने लुण्टितास्मि ॥ ५५ ॥ सर्वसारबहुलोहनिर्मितै युष्मदानननिषङ्गनिर्गतैः। ९ वाक्शरैः प्रसरमेत्य धर्मतो, धर्षितेयमिहमासदत्पदम् ॥ ५६ ॥ सर्व० इयं निद्रा इह मयि विषये पदं स्थानं आसदत् , मा १२ प्राप्नोतु, किंविशिष्टा निद्रा ? धर्मतः पुण्यात् धनुषो वा वाक्शरैः वचनबाणैः प्रसरं एत्य धर्षिता, किंलक्षणैर्वाक्शरैः ? सर्वसारबहुलोहनिर्मितैः सर्वसारः सर्वोत्कृष्टो बहुल ऊहो १५ विचारस्तेन निर्मितैः, पक्षे सर्वसारमयं बहुलोहं तेन निर्मितैः निष्पादितैः, पुनः किं० युष्मदानननिषङ्गनिर्गतैः भवतां मुखरूपतूणकेभ्यो निःसृतैः ॥ ५६ ॥ तत्तदुत्तमकथातरङ्गिणी__भङ्गिमजनकसञ्जचेतसा । नैशिकोऽपि समयो मयोच्यतां, वासरः खरसनष्टनिद्रया ॥ ५७॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy