________________
टीकया सहितम्
[दशमः
तत्प्रमादमवधूय रक्षितुं,
यामिकीभवत यूयमालयः ॥५२॥ ३ हा० हे हलास्तत् तस्मात् कारणात् संमदास्पदं हर्षस्थानं मम इदं स्वप्नवस्तु निद्रया अद्य मा हारि मा हार्यतां, हे आलयः हलास्तत् वस्तु प्रमाद अवधूय त्यक्त्वा रक्षितुं यूयं यामिकी६ भवत आरक्षीभवन्तु ॥ ५२ ॥
स्वमवस्तु दयतेऽप्यगोचरं,
दत्तमप्यहह हन्ति तामसी । ९ संनिरुध्य नयनान्यचेतसां,
चेष्टते जगति सा यदृच्छया ॥ ५३॥ स्वप्न० सा तामसी तमोमयी रात्रिः अचेतसां पुरुषाणां नयनानि १२ लोचनानि सन्निरुध्य जगति विश्वे चेष्टते, या रात्रिः अगोचरमपि खामवस्तु दयते दत्ते, अहह इति खेदे दत्तमपि हन्ति ॥ ५३॥
वासरे सरसिजस्य जाग्रतो, ___ गर्भमन्दिरमुपेयुषीं श्रियम् । शर्वरीसमयलब्धविक्रमा,
लुम्पतीयमनिमित्तवैरिणी ॥ ५४॥ १८ वास० इयं निद्रा अनिमित्तवैरिणी निनिमित्तवैरकारिणी
वर्चते, या निद्रा शर्वरीसमयलब्धविक्रमा रात्रिसमये लब्धपराक्रमा सती वासरे दिवसे जाग्रतः सरसिजस्य विकसितस्य
कमलस्य गर्भमन्दिरं उपयुषी गतवतीं श्रियं लक्ष्मी २२लुम्पति ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org