SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३४५ राम० हे हलाः! रामणीयकगुणैकवस्तुनः रामणीयकत्वगुणानामकस्थानस्य वस्तुनः, जने लोके अर्जनं उपार्जनं सुकरं सुलभं स्यात्, पुनस्तस्य वस्तुनो भाविविप्लवनिवारणं, सूरयो ३ विद्वांसो दुष्करं उशन्ति, कथयन्ति ॥ १९ ॥ अर्जिते न खलु नाशशङ्कया, क्लिश्यमानमनसस्तथा सुखम् । जायते हृदि यथा व्यथाभरो, नाशितेऽलसतया सुवस्तुनि ॥ ५० ॥ आर्जि० हे हलाः! सुवस्तुनि अर्जिते उपार्जिते सति, खलु ९ निश्चितं पुरुषस्य तथा सुखं न जायते यथा अलसतया वस्तुनि नाशिते सति व्यथामरो जायते, किंविशिष्टस्य पुरुषस्य ? नाशशङ्कया क्लिश्यमानपीड्यमानमनसः ॥ ५० ॥ १२ दृष्टनष्टविभवेन वर्ण्यते, भाग्यवानिति सदैव दुर्विधः। जन्मतो विगतलोचनं जनं, प्राप्तलुप्तनयनः पनायति ॥५१॥ दृष्ट० सदैव दुर्विधो दरिद्री भाग्यवान् इति वयेते, प्राप्तलुप्तनयनः प्राप्तः लुप्तलोचनः पुरुषजन्मतो जन्म यावत् १८ विगतलोचनं अन्धजनं पनायति स्तवीति, इत्यत्र आत्मनेपदस्याभावात् पनायति भवति ॥ ५१ ॥ हारि मा तदिदमद्य निद्रया, खमवस्तु मम संमदास्पदम् । १२ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy