SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं ३४१ सिञ्च० त्वं समयभङ्गतापिताः मर्यादाभनेन तापयुक्ता नोऽस्मान् अखिलाः समस्ताः सखी: खकार्यवाक्शीकरैरात्मीयकार्यवचनरूपजलकणैः सिञ्च, सर्वदैकहृदयं सखीगणं मा ३ पृथग्गणनया अवजीगणः मा अवगणय ॥ ३९ ॥ सा सखीभिरिति भाषिता रमे वोरुपद्ममणुपद्मवेष्टितम् । अध्यशेत शयनं समन्ततः सन्निविष्टवरविष्टरावलि ॥ ४०॥ सा० सा सखीभिरिति अमुना प्रकारेण पूर्वोक्तप्रकारेण ९ जल्पिता भाषिता सती शयनं पत्यत अध्यशेत आश्रिता, किंलक्षणं शयनं ? समन्ततः सर्वतः सन्निविष्टवरविष्टरावलि सन्निविष्टा स्थिता प्रशस्यमञ्चिकागब्दिकामूटकसिंहपीठादि १२ आसनानां श्रेणियंत्र तत् , सुमङ्गला केव ? रमा लक्ष्मीरिव, यथा रमा अणुपद्मवेष्टितं लघुकमलपरिवृतं ऊरुपमं बृहत्कमलं आश्रयति ॥ ४० ॥ १५ एकमूलकमलद्वयाभयो___ स्तत्पदोरुपरि पेतुरुत्सुकाः । हेमहंसललनागरुच्छ्यिो लालनाय शतशः सखीकराः॥४१॥ एक० शतशः सखीकराः शतसंख्याकाः सखीसत्कहस्ताः, उत्सुकाः सन्तः लालनाय प्रतिपालनाय तस्याः सुमङ्गलायाः पादयोरुपरि पेतुः पतिताः, किं विशिष्टयोस्तयोः ? एकमूलकमल-२२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy