SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४० टीकया सहितम् [दशमः देवाङ्गनासमूहस्ते तव सततं निरंतरं पारिपार्श्विकः समीप खोऽस्त्येव हि निश्चितं वेधसा ब्रह्मणा वयमेव वञ्चिताः, यत् ३ वयं भवदुपासनात् बहिष्कृताः ॥ ३६ ॥ कार्यमेतदजनिष्ट किं तवा__ कसिकं विमलशीलशालिनि । यत्पुरा व्रजसि चाटुकोटिभि भवेश्म तदगाः स्वयं यतः॥ ३७॥ कार्य० हे विमलशीलशालिनि निर्मलशीलशोभिते ! एतत् ९ कार्य तव किं आकस्मिकं अजनिष्ट जातं, यत् पुरा पूर्व चाटुकोटिभिर्भर्तृवेश्म व्रजसि तदगाः यतो यस्मात् कार्यात् तत् खयमागतवती ॥ ३७॥ तद्भविष्यति फलोदये स्फुटं गूढचारिणि चिरादपि खयम् । किन्तु नः प्रकृतिचञ्चलं मनः काललालनमियन्न सासहि ।। ३८॥ तद्भ० हे गूढचारिणि प्रच्छन्नगमने ! तत् कार्य चिरादपि बहुकालतोऽपि वयं आत्मना फलोदये सति स्फुटं प्रकटं १८ भविष्यति, किन्तु नोऽस्माकं प्रकृतिचञ्चलं खभावेन चपलं मनः इयत् काललालनं कालविलम्बनं सासहि न सहते ॥ ३८॥ सिञ्च नस्त्वमखिलाः खकार्यवाक् शीकरैः समयभङ्गतापिताः । सर्वदैकहृदयं सखीगणं, मा पृथग्गणनयाऽवजीगणः॥ ३९ ॥ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy