SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३३८ टीकया सहितम् [दशमः सत्यः संनिपत्य समुदायं कृत्वा तां सुमङ्गलां परिवब्रुः परिवृण्वन्ति स्म, किंलक्षणां सुमङ्गलां? उच्चसज्जलरुहाननां ३ विकसत्कमलसदृशमुखीं, कामिव ? पद्मिनीमिव, यथा मधुव्रतालयः भ्रमरश्रेणयः प्रगे प्रभाते विकसत्कमलमुखी पद्मिनी परिवृण्वन्ति ॥ ३१ ॥ ऊचिरे त्रिचतुराः पुरस्सरी भूय भक्तिचतुरा रयेण ताः। तां प्रणम्य वदनेन्दुमण्डला भ्यासकुड्मलितपाणिपङ्कजाः ॥ ३२ ॥ ऊचि० त्रिचतुरास्तिस्रश्चतस्रो भक्तिचतुरास्ता आलयः सख्यः पुरस्सरीभूय अग्रेभूत्वा तां सुमङ्गलां प्रणम्य रयेण वेगेन १२ ऊचिरे ऊचुः, किंलक्षणाः सख्यः वदनेन्दुमंडलाभ्यास कुङ्मलितपाणिपंकजाः वदनेन्दुमंडलस्य ? मुखचन्द्रमंडलस्य अभ्यासे समीपे कुङमलिते कोशीकृते पाणिपंकजे याभिस्ता १५वदनेन्दु० ॥ ३२ ॥ एवमाजनुरसंस्तुतो भवे द्यः स एव शयितो विमुच्यते । १८ उच्यते किमथवा तव प्रभु न परस्य परिभाषणोचितः ॥ ३३॥ एव० हे स्वामिनि ! य आजनुरसंस्तुत आजन्म अपरिचितो २१ जनो भवति स एव शयितः सुप्तो विमुच्यते, अथवा तव किमुच्यते ? प्रभुः खामी अपरस्य परिभाषणोचितः जल्पनयोग्यो २३न वर्तते ॥ ३३ ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy