________________
सर्गः]
जैनकुमारसंभवं पानशौण्डमिव लुप्तचेतनं,
सुप्तमन्तरखिलं सखीजनम् ।। २९ ॥ तत्र० सा सुमङ्गला तत्र निकेतने पानशौंडमिव सुरा-३ पानमत्तमिव लुप्तचेतनं अंतर्मध्ये सुप्तं अखिलं समस्तं सखीजनं ददर्श, किंविशिष्टे निकेतने ? चित्रमणिदीपदीधितिध्वस्यमानतिमिरे, आश्चर्यमयमणिसत्कप्रदीपकिरणैर्निराक्रियमा-६ णान्धकारे ॥ २९॥
सोऽध्वगत्वचपलाङ्गसङ्गतो
न्मेषिघोषमणिमेखलादिभिः । निद्रया जागरितोऽपि जागरं,
द्रागनीयत तया विना गिरम् ॥ ३०॥ सः० तया सुमंगलया स सखीजनः अध्वगत्वचपलांग- १२ संगतोन्मेषिघोषमणिमेखलादिभिः मार्गगत्वेन चपले अङ्गे गता मिलिता, उन्मेषि घोषा विकखरनादा ये मणिमेखलादयस्तैर्गिरं वाणी विना द्राक् शीघ्रं जागरं अनीयत गृहीतः, १५ किंविशिष्टः सखीजनः ? निद्रया जागरितोऽपि अजगरवदाचरितः ॥ ३०॥
तां ससंभ्रमसमुत्थितास्ततः,
सन्निपत्य परिवQरालयः। उच्छसजलरुहाननां प्रगे,
पद्मिनीमिव मधुव्रतालयः ॥३१॥ ता० ततस्ततोऽनन्तरं आलयः सख्यः ससंभ्रमसमुत्थिताः २२ जै० कु. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org