________________
जैनकुमारसंभवं
[दशमः
पुनः किंवि० खं तिरोहितवतीभिः दिविषत्पुरन्ध्रीभिर्देवाङ्गनाभिः कौतुकाय अग्रतः शोध्यमानसरणिविलोक्यमान३ मार्गाः, पुनः किंल० शिरसि मस्तके आधीयमानधवलातपत्रिका धार्यमाणा श्वेतछत्रा ॥ २६ ॥ पुनः किं० ध्वनितनपुरक्रमा स्पष्टं, पुनः किं० अवसरवेदिना इव अवसरज्ञ६ सदृशेन वायुना दम्यमानगमनश्रमा निर्गम्यमानश्रमा ॥ २७ ॥ चतुर्भिः कलापकं ॥ कान्तमन्दिरमुपेत्य साचिरा
शंसितार्थपरिपूरिताशया। सारसंमदमहाबलेरिता,
खं निकेतनमियाय नौरिव ॥ २८॥ १२. कान्त० सा सुमङ्गला नौरिव कान्तमन्दिरं कान्तस्य भर्तुः मन्दिरं गृहं कान्तं प्रधान मन्दिरं तटं वा तत उपेत्य प्राप्य खं
आत्मीयं निकेतनं आवासं इयाय, आगता, कथंभूता १५ सा अचिराशंसितार्थपरिपूरिताशया अचिरेण स्तोककालेन
आशंसितः कथितोऽर्थः खमार्थलक्षणस्तेन परिपूरित आशयो
अभिप्रायो यस्याः सा, नौ पक्षे अर्थो द्रव्यं तेन परिपूरित १८ आशयो मध्यं यस्याः सा, सारसंमदमहाबलेरिता सारः
प्रधानः संमदो हर्षस्तस्य महाबलेन महास्थाना ईरिता प्रेरिता पक्षे महाबलो वायुज्ञेयः ॥ २८ ॥
तत्र चित्रमणिदीपदीधिति२२ ध्वस्यमानतिमिरे ददर्श सा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org