SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ जैनकुमारसंभवं अस्तु वास्तवफलस्य वाऽस्तु ते, वाग्लता त्वरितमेवमूचुषी । वासवेश्म निजमाश्रयेति सा, शासनं सपदि पत्युरासदत् ॥ २२ ॥ अ० सा सुमङ्गला निजं वासभवनं आश्रयं इति अमुना ६ प्रकारेण पत्युः श्रीऋषभदेवस्य शासनं आदेशं आसदत् प्राप्त, किंविशिष्टासुमङ्गला हे स्वामिन् ते तव वाग्लता वाग्वल्ली वास्तवफलस्य सम्यक् फलस्य वास्तु स्थानं अस्तु भवतु, ९ एवं ऊचुषी जल्पितवती ॥ २२ ॥ दत्तदक्षिणभुजा निजासने, गर्भगे धरणिपाकशासने । सोदतिष्ठदतनुस्तनावनीभृटीलुलितहारनिर्झरा ॥ २३ ॥ दत्त० सा सुमङ्गला धरणिपाकशासने चक्रवर्त्तिनि गर्भगे १५ उदरस्थे सति निजासने दत्तदक्षिणभुजा सती उदतिष्ठत उत्थिता, किंविशिष्टा सुमङ्गला ? अतनुस्तनावनीभृत् तटीलुलितहारनिर्झरा स्थूलस्तनावेव अवनीभृतौ पर्वतौ तयोस्तटे लुलिताः १८ सविलासा हारा एव निर्झरा यस्याः सा अतनुस्त ० ॥ २३ ॥ ३ ३३४ १२ २२ फुल्लमल्लिकमिदं वनं किमु, स्मेरकैरवगणं सरोऽथवा । एवमूहविवशा निशामयंत्यश्रमक्रमविकीर्णतारकम् ॥ २४ ॥ Jain Education International For Private & Personal Use Only [ दशमः www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy