SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् संशयैः समस्तसन्देहैः क्षीणमेव, चेत् यदि कोशतः परीवारात् भटस्य असिः खड्नः उदितो निर्गतः स्यात् , तत् असत्त्वदस्युभिनिःसत्त्वशत्रुभिः नष्टमेव ॥ १४ ॥ तावकेऽपि वचने श्रुति गते, यस्य मानसमुदीर्ण संशयम् । मुष्टिधामनि मणौ सुधाभुजां, तस्य हन्त न दरिद्रता गता ॥ १५॥ ताव० हे नाथ! तावकेऽपि वचने श्रुति कर्ण गते सति यस्य मानसं चित्तं उदीर्णसंशयं गतसंदेहं न वर्तते, तस्य ९ पुंसो मुष्टिधामनि मुष्टिस्थिते सुधाभुजां मणौ चिंतामणौ हंत इति वितर्के दरिद्रता न गता ॥ १५ ॥ यत्चयोच्यत तथैव तन्महे, १२ तन्महेश निजहृद्यसंशयम् । कम्पते किल कदापि मन्दरो, मन्दरोष न पुनर्वचस्तव ॥१६॥ १५ यत्त्व० हे महेश ! यत् त्वया औच्यत प्रोक्तं तत् तथैव असंशयं निःसन्देहं वयं तन्महे विस्तारयामः, 'अविशेषणे द्वौ चासद' इति पदेन एकवचने बहुवचनं, किल इति सत्ये १० हे मन्दरोष ! मन्दरो मेरुः कदापि कम्पते, पुनस्तव वचो न कम्पते ॥ १६ ॥ शैलसागरवनीभिरस्खलत्पक्ष्ममात्रमिलनान्नियंत्रितम् । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy