________________
३३०
जैनकुमारसंभवं [दशम: तत्तदा द्रुतमितो वियोज्यते,
वेधसा ध्रुवममन्दमेधसा ॥ १२॥ ३ द्राक्ष हे नाथ! किल इति सत्ये, खं फलं आत्मीयफलं भवगिरः त्वदीयवाण्या मधुरतां अनुशिक्ष्यते तदा तस्मिन्नवसरे तत्फलं इतो द्राक्षावल्लीतः द्रुतं शीघ्रं अमन्दमेघसा बहु६ प्रज्ञावता मेधसा ब्रह्मणा ध्रुवं निश्चितं वियोज्यते पृथक्क्रियते ॥ १२॥
वारिवाहवदलं तव श्रव:
पल्वलप्रमभिवर्षतः सतः। निश्यधीश शममाम मामकं,
संशयान्धतमसं तदद्भुतम् ॥ १३ ॥ १२ वारि० हे अधीश! तव वारिवाहवत् मेघवत् अलं अत्यर्थ
श्रवःपत्वलं अत्र णमप्रत्यये 'वृष्टिमाने ऊलुक् च वा' इति सूत्रेण
पूर इत्यस्य ऊलोपे एष प्रयोगः स्यात् , रसं कर्णसरःपूरं १५ यथा भवति तथा अभिवर्षतः सतः, निशि रात्रौ मामकं मदीयं संशयान्धतमसं संदेहान्धकारं शमं आम जगाम, तत् अद्भुतं
आश्चर्य ॥ १३ ॥ १०
निर्गतं यदि तवाननाद्वचा,
क्षीणमेव तदशेषसंशयः । कोशतोऽसिरुदितो भटस्य चे
नष्टमेव तदसत्वदस्युभिः ॥१४॥ २२ निर्ग० हे नाथ ! यदि तवाननात् त्वद्वचो निर्गतं तत् अशेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org