SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीकया सहितम् बद्धधारममृतं भवद्वचो निर्व्यपायमभिपीय साम्प्रतम् । प्रीतिभाजिनि जनेऽत्र नीरसा, शर्करापि खलु कर्करायते ॥ १० ॥ बद्ध ० हे नाथ! शर्करा अपि अत्र मल्लक्षणे जने नीरसा सती, सांप्रतं अधुना खलु निश्चितं कर्करायते कर्करवदाचरति, किं ६ विशिष्टे जने ? बद्धधारममृतं भवद्वचः निर्व्यपायं निर्विघ्नं यथा भवति तथा अभिपीय पीत्वा प्रीतिभाजिनि ॥ १० ॥ प्राक्कषायकलुषं ततो घनं, घोलनार्पितरसं विनाशि यत् । तद्रिपूकृतघनागमं समं, नाम्रमीशवचसामनीदृशाम् ॥ ११ ॥ प्राक्क० तत् आम्रं आम्रफलं ईशवचसां खामिनो वचनानां समं सदृशं न भवति, किंविशिष्टानां ईशवचसां अनीदृशां न अनेन आम्रफलेन सदृशानां, किंविशिष्टं आम्रं ? रिपूकृत- १५ घनागमं रिपुः कृतो घनागमो वर्षतुः सिद्धान्तो वा येन तत्, भगवद्वचनमागमं मन्यते, अत एव अनीदृशत्वं यत् आम्रफलं प्राक् पूर्वं कषायकलुषं भगवद्वचो नैवंविधं स्यात्, ततस्त- १५ तोऽनन्तरं यत् आम्रं घनं अत्यर्थं घोलनार्पितरसं विनाशि विनश्वरं वर्त्तते ॥ ११ ॥ द्राक्षया किल यदानुशिक्ष्यते, स्वं फलं मधुरतां भवद्भिरः । Jain Education International ३२९ For Private & Personal Use Only १२ २२. www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy