SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२८ जैनकुमारसंभवं [दशमः ईदृगुक्तिपयसां यदूर्मयो, विस्फुरन्ति बहिराननाध्वना ॥७॥ ३ कि० यत् ईदृग् उक्तिपयसां ईदृशवचनदुग्धानां उर्मयः कल्लोला आननाध्वना मुखमार्गेण बहिर्विस्फुरन्ति प्रसरन्ति ॥७॥ खस्थमेव सुखयन्त्यहो जनं, दुःखितेष्वपि सुखं ददानया । विभ्यतीव भवतो जिता गिरा, किं सुधा न वसुधामियति सा ॥८॥ ९ खस्थ० हे नाथ ! भवतो गिरा त्वदीयवाण्या जिता सती सा सुधा वसुधां पृथ्वी किं न इयर्ति नागच्छति, उत्प्रेक्ष्यतेबिभ्यतीव भयभ्रान्तेव, किं कुर्वाणया तव गिरा ? अहो इत्याश्चर्ये १२ दुःखितेष्वपि सुखं ददानया, किं कुर्वती सुधा ? खस्थमेव खर्गस्थं सुखिनमेव जनं सुखयन्ती ॥ ८॥ वैधवं ननु विधिय॑धात्सुधा सारमत्र सकलं भवद्भिरि । पूर्णिमोपचितदेहमन्यथा, ... तं कथं व्यथयति क्षयामयः॥९॥ १८ वैध० हे नाथ ! विधिविधातो वैभवं विधोरिन्दोः वैभवं चन्द्रसत्कं सुधासारं, सकलं संपूर्ण, अत्र अस्यां भवगिरि त्वद्वाण्यां न्यधात् क्षिप्तवान्, अन्यथा क्षयामयः क्षयरोगः तं चन्द्र पूर्णिमोपचितदेहं पूर्णिमायां पुष्टदेहं कथं व्यथयति २९पीडयति ॥ ९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy