SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् ३२३ सोष्मणां सगर्वाणां यद्वस्तु दुरासदं दुःप्रापं वर्त्तते तद्वस्तु आकर्षणमात्रिक आकृष्टिमन्त्रिज्ञाः सुखं अनुते प्राप्नोति ॥ ७५ ॥ व्यलीकता दूषणमुत्तमे न मे, मुखप्रियत्वेन गिरोऽधिरोप्यताम् । सुवर्णनाना हि समर्पिता रिरी भवेत्स्वरूपाधिगमेऽधिकार्तये ॥ ७६॥ ६ व्यली. हे उत्तमे ! त्वं मे मम गिरो वाण्या मुखप्रियस्वेन व्यलीकता अलीकत्वदूषणं न अधिरोप्यतां मा स्थाप्यता, रिरी पित्तला हि निश्चितं सुवर्णनाम्ना समर्पिता समीप-९ खरूपाधिगमे खरूपे ज्ञाते सति अधिकार्तये अधिकपीडायै भवेत् ॥ ७६ ॥ इदं वदन्तं भगवन्तमन्तरा लयं नमःस्था ऋभवो भवन्मुदः। सुमैरसिञ्चन् जय संशयक्षया मयागदंकारवरेति वादिनः ॥ ७७॥ १५ इदं० नभःस्था आकाशस्था ऋभवो देवाः भवन्मुदो जायमानहर्षाः सन्तः अन्तरालयं आवासस्य अन्तर्मध्ये इदं वदन्तं भगवन्तं सुमैः कुसुमैरसिञ्चन् , किंलक्षणा ऋभवः ? हे संशय-१८ क्षयामयागदंकारवर! संदेहरूपक्षयरोगस्य राजवैद्य त्वं जय इति वादिनः ।। ७७ ॥ श्रुत्वेदं दयितवचः प्रमोदपूर्त्या, दधे सा समुदितकंटकं वपुः स्वम् । २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy